________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शैष- शिशिरौ तालव्योपेतौ ग्रीष्मर्तुरूष्मकः । ऊष्मायण ऊष्मा नान्त उष्ण उष्णागमोष्णकौ प्रावृषि प्रावृषा वर्षा बहुत्वे वरिषास्तथा । घनात्यये तु शरदा शरच्चाब्दे तु वत्सरः उद्वत्सर- संवत्सर- परिवत्सर - वत्सराः । अनुसंवत्सरो विवत्सरो वत्सोऽपि वर्षवत् वरिषः शारदोपेता शरत् संवदनव्ययम् । अव्ययं च, समा स्त्रीत्वे वा बहुत्वे च तद्भिदि इड्वत्सरेडावत्सरौ क्षये कल्पान्तकल्पकौ । संवर्त: परिवर्तश्च सांदृष्टिक-सांमृष्टिके तात्कालिकफले प्रोक्ते, आकाशे द्यो- दिवौ द्यु च । क्लीबं सन्तं नभश्चापि नभसो नभसं तथा अन्तरिक्षमन्तरीक्षं मेघे घन - घनाघनौ ऋञ्जसानो रिञ्जसान उभ्रोऽभ्रमब्धमित्यपि
1
Acharya Shri Kailassagarsuri Gyanmandir
गडयिलुर्गदयित्नुर्वारितो वाह वाहनौ । पर्जन्योऽष्टमवर्ग्याप्तोऽब्दमालायां तु कालिका काली वृष्ट्यां वर्षणं स्याद्वर्षं तद्विघ्नके त्ववात् । ग्रह - ग्राहौ, घनोपले तु करः करकस्त्रिषु आशायां दिग्-दिशे काष्ठा त्रिकवर्गद्वितीयभाक् । ककुभा ककुब् याम्याशाऽपाच्यवाची दिगन्तरे विदिक् प्रदिक् चापदिशं प्राकृ-प्राचीने समे मते । अपाचीनमपाक् प्रत्यक् प्रतीचीनमुदक् तथा उदीचीनमपाक् प्रत्यक् प्रागुदगव्ययान्यपि । इन्द्रे मघवा मघवान् मघवन् दल्मि- वल्मिकौ
૧૮૧
For Private And Personal Use Only
1182 11
॥ ४९ ॥
॥ ५० ॥
॥ ५१ ॥
॥ ५२ ॥
॥ ५३ ॥
॥ ५४ ॥
॥ ५५ ॥
॥ ५६ ॥
॥ ५७ ॥
॥ ५८ ॥
।। ५९ ।।