________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
औत्तानपादिः, कौम्भौ तु मैत्रावरुणि- वारुणी । मैत्रावरुण आग्नेय अग्निमारुत इत्यपि
अगस्त्ये ऽगस्तिरेकोक्त्या शशि- भास्करयोः पुनः । पुष्पदन्तौ पुष्पवन्तावुपलिङ्गमुपद्रवे
उपालिङ्गं रिष्टा ऽरिष्टे माङ्गल्ये चाप्यनेहसि । कालेऽतिथोऽतिथः कालविशेषे सुषमा तथा दुःषमा षोऽत्र मूर्धन्यः, काष्ठा त्वष्यदश स्मृताः । निमेषाष्ठाग्रगो वर्णोऽत्र घट्यां नाडि-नाडिके नाडी- नाली - नालिकाश्च, दिने तु दिवसो दिवम् । दिवा प्रतिदिवा नान्तौ धुरस्त्र्यव्ययमप्यहः
अहे ड्यन्त - यबन्तावहः सन्तोऽथ वासरः । वाश्रश्च दन्त्य-तालव्यमध्यौ घस्रश्च हस्रयुक्
Acharya Shri Kailassagarsuri Gyanmandir
दिवाव्ययं सप्तम्यर्थे, व्युष्टे कल्यं सकाल्यकम् । उषः प्रत्युषसी सान्तौ प्रत्यूषोऽपि प्रगेऽव्ययम् प्राह्णे पूर्वेद्युरेतौ च गोस- गोसर्गकौ समौ । मध्याह्ने तु दिवामध्यं मध्यं मध्यंदिनं तथा दिनावसाने सायोऽस्त्री सायं स्याद् मान्तमव्ययम् । पितृप्रस्वां सन्धा सन्ध्या सन्धिश्चापि विभावरौ विभावरी निशा निट् च निशीथश्च निशीथिनी । निशीथ्या वासुरा मध्यदन्त्य - तालव्ययुक्, तमिः तमी तमा तामसी च वसतिर्वासतेय्यपि । शार्वरी सर्वरी दन्त्यतालव्यादिरुषा उषः उसास्त्रयोऽमी सान्ता स्युरुषा दोषाऽप्यनव्यये । अव्यये च तथाऽऽदन्तौ, रजनी रजनि: स्मृता
१७८
For Private And Personal Use Only
॥ २४ ॥
॥ २५ ॥
॥ २६ ॥
॥ २७ ॥
॥ २८ ॥
॥ २९ ॥
॥ ३० ॥
॥ ३१ ॥
॥ ३२ ॥
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥