________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२॥
॥ १३ ॥
॥ १४ ॥
।। १५ ।।
॥१६॥
॥ १७॥
धाम नान्तमदन्तं च, ताविषं तविषं तथा । बलेऽप्यथो विधौ राजा राजराजश्च चन्दिरः चन्द्र-चन्दौ चन्द्रमसाऽमा विकुस्र-विकसकौ । विक्रस्र: सोम-सोमानौ यज्ञपेयरसेऽपि च लाञ्छने लक्ष्मणं लक्ष्म, लक्षणं, चन्दिरातपे। चन्द्रिका चन्द्रिमाऽपि स्यात्, मण्डले मण्डली मता नक्षत्रे तारका तारा निरिकाराऽत्र तारका । अश्वयुज्याश्वकिनी चाश्विनी स्युः कृत्यका बहौ बहुलाश्च मृगशीर्षे मृगमार्गों मृगाच्छिरः । मृगशिराऽपि शीर्षस्थास्तारकास्तस्य विल्वला: इन्वका मित्रदेवायामनुराधाऽनुराधिका । तृतीयवर्गद्वितीययुग् ज्येष्ठा मूल आश्रयः तालव्यदन्त्ययोराप्यामषाढा हुस्वपूर्विका । श्रविष्ठा च धनिष्ठापि त्रिकवर्गद्वितीययुक् तद्वत्प्रोष्ठपदा लग्नत्रिभागे तु दृकाणवत् । द्रिक-द्रेक्काण-दृक्काणाः, बुधे चान्द्रमसायनिः चान्द्रमसायनश्चापि गुरौ गीर्पति-गी:पती। गी- पति-गीष्पती रेफ-विसर्गगजकुम्भषाः चतुर्वेषु च वाग् वाग्मी प्रख्या आख्याः प्रचक्षसा । सकारान्तास्त्रयोऽमी स्युः, शुके काव्य-कवी भृगुः भार्गवेऽप्यर्कपुत्रे तु शनैश्चर-शनी-शनैः । अव्ययं, सौरि-सौरौ द्वौ, दन्त्य-तालव्यपूर्वको राहौ स्वर्भाणु-स्वर्भानू तमास्तमस्तमोऽपि च । द्वौ सान्तौ तृतीयोऽदन्तो, ध्रुव उत्तानपादक:
।। १८ ॥
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२॥
॥ २३ ॥
१७८
For Private And Personal Use Only