________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अरिष्टनेमौ नेमिच नेमी नन्तोऽपि कथ्यते । श्रीपार्श्वः पार्श्वनाथश्च वामेये, चरमेऽर्हति महावीरः स वीरच, तुर्यार्हन्तस्य वप्तरि । दन्त्यादिः संवरः, कुन्थुबप्पे शूरश्च सुरयुक् मरुदेवा मरुदेव्यप्याद्यार्हन्मातरि स्मृता । तालव्यमध्या त्रिशला, पञ्चमार्हदुपासके
त्र्युकारस्तुम्बुरुश्चक्रेश्वर्यामप्रतिचक्रिका । अजिताऽजितबलायां, सुतारा तु सुतारका निमीश्वरोऽर्हद्विशेषे द्वीकारोऽथ कृतार्घके । तुर्यहल्, शूरदेवस्तु दन्त्यतालव्यसादिमः संवरो दन्त्यसादिः स्यात्, भद्रकृद् भद्र उच्यते । मोक्षे श्रेयः शिवं तालव्यादी, निःश्रेयसं पुनः मध्यतालव्ययुक्, साधौ साधन्तः साधयन्तकः । रिष्यृषी यति-यतिनौ श्रमण - श्रवणौ तथा मुनिस्वे तप-तपसी अदन्त - सान्तके स्मृते । प्रायश्चित्तं प्रायश्चित्तिः पापसंशोधके तपे
शिष्य : शिक्षु - शैक्षो तालव्याद्याश्छात्रे च तद्भिदि । व्रतादाने परिव्रज्या प्रव्रज्याऽप्यभिधीयते
क्षपणे नग्न - नग्नाटयै श्रमणः श्रवणोऽपि च । क्षेमे मद्रं भद्र- भद्रे प्रशस्तं शस्तमित्यपि भावुकं भविकं भव्यं शिवं च श्वोवसीयसम् । श्रेयः स्वःश्रेयसं तालव्यादयः, कुशलं पुनः मध्यतालव्यकं प्रोक्तं, सुभं तालव्य - दन्त्ययुक् । मङ्गल्यमपि माङ्गल्यं मङ्गलं च तथा स्मृतम्
ક
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ६ ॥
॥ ७ ॥
112 11
॥ ९॥
॥ १० ॥
॥ ११ ॥
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥