________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसस्तस्य विशेषे स्तो हालाहल-हलाहलौ । इक्षौ रसालो दर्भे च बहि-M) शरःस्मृतः
॥ ९६॥ दूर्वायां च रुहा घासे यवसं च जलौकसि । शिली मर्कटके लालास्रावो वै वृश्चिके त्वलिः ॥ ९७ ॥ भृङ्गे रसांही रोलम्बोऽलिरली वृषभे वृषः । गव्युस्रो-षा कुर्कुरे श्वा महिषे वाहवैरिणा
॥ ९८ ॥ हरिवाहो लुलायोऽपि करभे शिशुनामभृत् । शलः खरे च वालेयं इडिक्के शिशुवाहवाक्
॥ ९९ ॥ कोले वराहः सिंहे च हरिर्दुष्टमतङ्गजे । व्यालो हिंस्र पशौ व्यालो हस्तिन्यां कथ्यते वशा ॥ १०० ॥ गजबन्धक्षितौ वारि घोटकेऽश्वो हयो हरिः । वाहोऽर्वा वाडवायां चाऽश्वाऽश्वे पीयूषवर्णके ॥ १०१ ॥ सेराह: पीतदेहे च हरियश्चित्रिताङ्गके। हलाह: कृष्णजोषत्पाण्डुकायिन्युराहवाक्
॥ १०२ ॥ कृष्णजानौ मनाग्पीते चोलाह: शुभ्रकेसरे। पाण्डुपुच्छे वोल्लाहो वेगसरे च वेसरः
॥ १०३ ॥ सृगाले हूरवः क्रोष्ट्यां शिवा स्याद् वानरे हरिः । मृगभेदे भवेदृश्यो रोहिषः संवरोऽपि च
॥ १०४ ॥ शल्यके शललः शल्य-स्तच्छलाकाभिधा शलम् । शललं मूषिकारातौ विलालो मृदुलोमके
॥ १०५ ॥ शश आखौ वृषः सर्प विषवाहो विलेशयः । अहस्वलोलो व्यालोऽहिर्वाय्वाश्याऽऽशीविषोऽपि च ॥ १०६ ।। शालूरारिरहीशे चाशीविषाश्यलगर्दके। वाळलोऽजगरे च स्याद् वाहसः शयुरित्यपि
॥ १०७॥
૧૨
For Private And Personal Use Only