________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
८
॥
सोत्कण्ठं तव कण्ठकाण्डकुहरे कुण्ठः परं पञ्चमो, मुग्धे ! यस्य कृते करे च विलुठत्यापाण्डुगण्डस्थलम् सद्यः स्विद्यति यन्मुखं पुलकि यन्कान्तं कपोलस्थलं, यच्च न्यञ्चति चक्षुरर्द्धमुकुलं यत्कम्पसम्पत्परा । स्तम्भारम्भि यदङ्गमङ्गणतटी दृष्टेऽपि कान्ते सखि, प्रौढ़ालिङ्गनभङ्गिसङ्गिनि न तज्जानामि यद्भावितः वैदग्ध्यबन्धुरमनुद्धरमुग्धदुग्ध स्निग्धच्छटाभिरभिषिञ्चदिवाङ्गमङ्गम् । तत्तद्विलोकितमनाकुलमायताक्ष्याः, शृङ्गारसारसुभगं सततं स्मरामि
।॥ ९ ॥ स्मेरस्फारविवृत्ततारनयनं त्रस्यत्कुरङ्गीक्षणा, मामैक्षिष्ट निविष्टविष्टपशिर:सौभाग्यभाग्यश्रि यत् । यच्चावोचत विस्मयस्मितसुधाधाराम्बुधौताऽधरं, तत् किं क्वापि ममापि कोपि कथमप्यन्योऽपि विस्मारयेत् ॥ १० ॥ वर्णः कीर्णसुवर्णचूर्णमहिमा देहस्य हास्यावहं, पूर्णेन्दोरमलास्यमस्यति रति चेतो भुवोऽपि स्मितम् । सुध्रुविभ्रमविभ्रमत्रिजगतस्तस्या रसस्रोतसो, बालेन्दीवरदामसुन्दरदृशः किं किं न लोकोत्तरम् ॥ ११ ॥ पीनोन्नतस्तनतटे तव भात्यखण्डखण्डाभ्रकं विकटकूटमिदं मृगाक्षि ! । प्राकारमण्डलमिव त्रिजगज्जिगीषुपञ्चेषुणा रचितमुच्चगिरीन्द्रदुर्गे
॥ १२ ॥ मानिन्याः कुटिलोत्कटध्रु सहसा संदष्टदन्तच्छदा, स्वेदातङ्कभयेन मोचनकृते हुङ्कारगर्भ मुखम् ।
CG
For Private And Personal Use Only