________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १
॥
पू.आ.श्रीजिनवल्लभसूरिविरचितम्
॥शृङ्गारशतकाव्यम् ।। स्वयम्भुवो वृषाऽहीनराजहंससमाश्रिताः । शिवश्रीकान्तधातारो, जयन्ति जगदीश्वराः यन्नामस्मरणादपि श्रुतिसुधासारानुकारा नृणां, सर्पन्ति प्रविवादिकोविदमदक्षोदक्षमः सूक्तयः ।। तां वन्दे बुधवृन्दवन्धचरणां वाग्देवतामुद्धतध्याऽऽन्ध्यं ध्वंसकरी स्थितां हदि शरच्चन्द्रोज्ज्वलाङ्गश्रियम् ॥२॥ सुललितपदाः सालङ्कारा विदग्धमनोहरा:, स्फुटरसघनश्लेषाश्छन्दानुवर्तनतत्पराः ।। प्रकृतिमधुराः शय्यां प्राप्ताः प्रसन्नतया स्वयं, कविजनगिरः कान्ताः कान्ता जयन्ति गुणोज्ज्वला: ॥३॥ सन्तोऽसदपि कुर्वन्ति, भूषणं दूषणं परे। एकान्ततस्ततश्चेह, कुतस्त्यस्तत्त्वनिश्चयः लक्ष्मीमुक्तोऽपि देवादुदितविपदपि स्पष्टदृष्टाऽन्यदोषोप्यज्ञावज्ञाहतोऽपि क्षयभृदपि खलालीकवाक्याकुलोऽपि । नैव त्यक्त्वाऽऽर्यचर्यां कथमपि सहजां सज्जनोऽसज्जन: स्यात्, किं कुम्भः सातकौम्भः क्वचिदपि भवति त्रापुषो जातुषो वा ॥ ५ ॥ नास्ते मालिन्यभीतेरखिलगुणगणः सन्निधानेऽपि येषां, येषां सन्तोषपोषः सततमपि सतां दूषणोद्घोषणेन । तेषामाशीविषाणामिव सकलजगन्निनिमित्ताऽहितानां, कर्णे कर्णेजपानां विषमिव वचनं क: सकर्णः करोति कोऽयं दर्पकरूपदर्पदलनः कः पुण्यपण्यापण:, कस्त्रैलोक्यमलङ्करोति कतमः सौभाग्यलक्ष्म्यावृतः ।
॥
४
॥
॥६॥
For Private And Personal Use Only