________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दत्ते तामरसेऽलिनाधरपुटे दृष्य वराकी सखी वासस्तत्परिधाय मुञ्चसि चिरं येनाङ्गरागं वमेत् । मुद्रायै चटुले तथा विदधती प्राप्ता निशीथेऽधमा नाभिज्ञानमुदाहरेति सुदती दूत्या रतं शंसति नाथ ! त्वं बहुवल्लभो वयममी जाता दयाभूमयो भूयस्तल्पमुपागतोऽसि सहसा तत्तेऽधिकं साहसम् । अन्यस्त्रीजनभुक्तमुक्तमधम स्पष्टापराधं नरं चित्तेनापि खलु स्पृशन्ति न शठं चण्डालवद्योषितः दूरादुत्थितमुक्तमिष्टमधिकं स्वैरं स्वयं वीजितं पृष्ठं स्वागतमीरितं च रजनीवृत्तं सखीनां मिथः । लिप्तं वक्षसि चन्दनेन शयनं निद्रोचितं कल्पितं यामिन्या मुषितं वितीर्य कुसुमः व्यक्तोऽपराधः कृतः अक्ष्णोर्निक्षिप कज्जलं श्रवणयोराधेहि नीलोत्पलं पत्रं चारुकपोलयोर्लिख कचं पुष्पनजा पूजय । लाक्षामुज्ज्वलयाधुना चरणयोर्नीवीं च संभावय प्रातः कोऽपि निगद्यते मृगदृशा रत्या चिरं तुष्टया सीत्कारेण विना श्रमादपि विना श्वासेन वाचा विना नीवीग्रन्थिविमोचनेन च विना गाढोपगूढं विना । तल्पेनापि विना विना सहचरीसङ्गेन दीपं विना यतिचित्सभयं तदेव सुरतं दास्यं परं प्रेयसः आश्लिष्यन्नवधीरितश्चटुशतं कुर्वन्मुहुस्ताडितस्तल्पान्तादपसारित: स्मितमुखस्तिष्ठन्पुरो वारितः । नोदास्ते दयितः कथं दयितयापादानतो नेक्षितस्तन्मुग्धे सह यातनापरिणतिं तत्तत्स्वयं कर्मणः
૫
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
1129 11
॥ ८८ ॥
11 28 11
॥ ९० ॥
॥ ९१ ॥
॥ ९२ ॥