________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥८१ ॥
॥८२ ॥
।। ८३ ॥
आयातेव निवारितः स्मितमुखो यातः समीपं बलादाबद्धो वलया हठेन सरुषा कर्णोत्पलेनाहतः । आविद्धो नखरायुधेन हृदये लाक्षारसेनाङ्कितः कान्तः कामपि तृप्तिमापदुचितं कामस्य वामा गतिः मा मां कल्पय लम्पटेषु भवती मा भूः स्वयं खण्डिता भूयोऽन्यत्र न जातु यास्यति निशा तुभ्यं शयेय स्फुटम् । कस्यास्तीह न मन्दिरै परिमल: कस्याङ्गरागो न वा को नालिङ्गति बान्धवं त्यज वृथा तापं प्रसीदाधुना पादालतकलाञ्छनं निजमुरो (?) माच्छादयालोक्यते प्रेयांसो रसपेशला मृगदृशामानन्दथूत्पादकाः । रागाशोकमहीरुहस्तबकितस्तत्पादपद्माहतः स्वच्छे वक्षसि वल्लभस्य परितस्तच्छायमेतद्बहिः दुष्टास्ताः पुरुषं निरीक्ष्य रमणीपादालाक्षारसेनाच्छेनाङ्कितवक्षसं ननु मुधा यासां व्यथा चेतसि । रागाशोकमहीरुहोऽन्तरुदितः किं नावकेशी भवेच्चेदन्यापि तथाविधेन न पदा नि:शङ्कमाताडयेत् पूर्णं चन्द्रमयोगिनीजनमन:संतापसंपादकं सत्यं कामविदो वदन्ति विरहे चन्द्रादयो दु:सहाः । एतत्त्वत्तनुलग्नचन्द्रकलया सङ्गे तवैवाधुना वक्षो दीर्यत एव विद्धि झटिति त्वं नाथ ! दूरं व्रज दोष्णोः पत्त्रकमुद्रणा नयनयो रागोऽधरे कज्जलं गात्रेऽपि क्षतमौचिती सुभगयोः स्याद्वाससो व्यत्ययः । आश्लेषेऽपि परस्परं परिमल: द्रागङ्गरागक्षति किंमूलो हदि पादपल्लवगलल्लाक्षारसस्यादरः
।। ८४ ।।
॥८५ ॥
॥ ८६ ॥
८४
For Private And Personal Use Only