________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्यामाया मुखमिन्दुमण्डलमिदं पाण्डुद्युतिप्रोषिते दूरं भर्तरि वासरे मृगतया लम्बालकाग्रच्छविः । उच्चैरम्बरकेलिशैलशिखरादालोकते मेदिनी पन्थानं विरहज्वरातुरतनुस्तद्वासरस्यादरात्
।। ७५ ॥ रक्तं किंचिदुदेति वासवदिशि श्यामामुखं लोहितं रोषेण प्रतिवासरं स भजते नाथो दिनं वारुणीम् । विख्यातो द्विजराजनामभिरयं मौलौ भवानीपते-- स्तिष्ठत्किं न हि लज्जतेऽरुचि ... तं म्लानिनिजाङ्कच्छलात् ॥७६ ॥ शृङ्गाराद्वयवादिनो रतिपतेनिःसा (?) णपात्रीमुखं तन्मार्दङ्गिकपुंस्यिक (?) प्रतितनुच्छायान्तरुज्जृम्भते। किं वा वासवदिग्वधूकरतलादानेय दिग्वल्लभा कान्तस्याध्वनि पत्य (?) पातमलिनस्तच्चन्द्रम:कन्दुकः ॥७७ ॥ नायातः सखि निर्दयं स समयः प्रायो गतो गम्यतां नष्टं कि यदि नागतः सशपथं रुद्धः क्वचिद्बन्धुभिः । आयास्यत्यथ दुर्जनः परवधूगाढोपगूढाङ्कितः प्रातर्दृष्टिमुपागतेन बटुना वक्षो विदारिष्यते मा गाः कान्त निशामुखे परगृहं मा गास्ततोऽहर्मुखे वेश्मास्माकमिदं द्वयं वितनुते चायु:क्षतिर्योषिताम् । मा भूत्काञ्चनवञ्चितेति रमणी मा भूदहो खण्डिता मुग्धा भावमपाचकार रमणीत्थं वारयन्ती पतिम् ॥ ७९ ॥ प्रेयः प्रेममहाधना स्मितलवोल्लासं रसे मज्जती सृष्टा केन खलेन वा परवशा योपिद्वराकीयती (?)। मा भूत्काञ्चनवञ्चिता निशि निशि प्राणेश्वरेणाबला पश्येयुर्न च खण्डिता मुखमपि प्रातर्वयस्याश्चिरम्
॥ ७८ ।।
।। ८०11
८३
For Private And Personal Use Only