________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| ३९ ॥
|| ४० ॥
॥४१॥
प्रालेयाचलनिम्नगाभिरभितो मार्गे निरुद्धेऽधुना प्रावृष्येति न यक्षराजककुभस्तन्वी कथं जीवति । इत्यालापपरम्परां श्रुतवती त्वासां सखीनां मिथो बाला पृच्छति साधु रावणपुरीद्वारध्वनो वासरान् आकर्णाञ्चितधन्वनः करिवरव्यापादनायोद्यताविन्ध्यालेख्यमहाटवीषु मृगयोत्साहे सखीनां पतीन् । कोदण्डाञ्चलबद्धनिर्मदशिखिप्रस्फारपिच्छध्वजं प्राप्तं स्वं पतिमालिलेख सुदती गर्वाज्जहासोच्चकैः यस्मात्पीनपयोधरद्वयमिदं कृत्वोपधानं सुखं स्नातौ दर्पकदम्पती मृदुतनावस्यां शयाते चिरात् । किंचिच्छ्यामलमग्रतस्तदुभयं पाण्डुस्वभावादहो धम्मिल्लाङ्कनिमग्नतैलशबलच्छायां ततो लक्ष्यते मञ्जीरद्धयमेतदङ्गदयुगं ग्रैवेयकं कुण्डले ससैतानि विलोकय प्रभुरसि स्वैरं सपत्न्याः पुरः । किं ब्रूमः पतिदेवता वयमिति व्याहृत्य पत्युर्ददौ सीमन्ताचलपद्मरागशकलं बाला बलादञ्जलौ लीलातामरसं विपक्षरमणीहस्ते निरीक्ष्यादरादावेशादुपविश्य सामि सहसोड्डीनैरलीनां गणैः । गुञ्जत्सौरभलम्पटालिपटलीश्यामं तदेवात्मनो मा दृष्टेति ललज्ज कापि रमणी तत्याज दूरेऽम्बुजम् प्रेयस्ताडनकर्मणीदमुचितं निर्वापकं तेजसो लज्जानमणि लोचनाञ्जनरुचः सौभाग्यसंपादकम् । प्राप्ते प्रेयसि मन्दिरं तदपरं लीलारविन्दं पुनः शय्योत्थायमपाचकार रमणी सौधाबहिः सत्वरम्
॥४२॥
॥४३ ॥
।। ४४॥
७७
For Private And Personal Use Only