________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| ४५ ॥
||४६ ॥
।। ४७ ॥
क्रीडासद्मनि कापि कौतुकवती क्षीरोदपूरोदरे निद्राणं हरिमालिलेख निखिलप्रारम्भमुद्रागुरुम् । पूर्वं दक्षिणमीक्षणं भगवतो ध्यात्वा हसन्ती क्षणं पश्चाद्धाममलीलिखत्किमु निशा यस्यां न गाढं तमः मात्रा चित्रविशेषलेखनविधावादिष्टपूर्वा चिरं विष्णोर्जागरणोत्सवाय सुदती रेखामधादग्रतः । कैलासाचलगामिमानससर: स्वच्छं लिखेत्यादृता क्रीडाशैलसरश्चकार विकसज्जाम्बूनदाम्भोरुहम् नष्टे तेजसि बान्धवे विधिवशाझ्यावापृथिव्यौ मिथः कुर्वाते सलिलाञ्जलिं मरुदसावद्यापि नोत्तिष्ठते । आक्रान्तेन महौजसा च वियता क्षिप्तं यदन्धं तमः प्रातः पीतमनिच्छया तदधुना विष्वग्वसेन्मेदिनी वारुण्याञ्चलवायुनोपशमिते भास्वत्प्रदीपेऽधुना कि चिन्वन्ति नवाञ्जनं सममिदं शृङ्गारमाधित्सवः । किं वा सत्रिभिराहतेषु पतिषु व्योमैकगेहोदरे सद्यः संप्रति शेरते दश दिशः सत्यं सुखं यातरः मुग्धे माभिसर स्वमन्दिरमलं कुर्वानय प्रायशः प्रेयांसं तव साहसं न घटते तथ्यं हितं ब्रूमहे । सद्यस्त्वन्मुखचन्द्रिकाभिरभितो लीढेऽन्धकारेऽधुनाप्यन्यासामभिसारसाहसरसे जातोऽन्तरायोऽधुना मञ्जीरं त्यज मुञ्च मौक्तिकसरं मा मल्लिका: शीलय नीलं वा परिधत्स्व चारु वसनं वाचं नियच्छादरात् । मन्ये स्यादभिसारिका न भवती दूरे ध्वनि प्रायशस्त्वच्छासानिलविप्रलब्धमधुना प्रातः समुज्जृम्भते
|| ४८ ॥
|॥ ४९ ॥
॥ ५० ॥
For Private And Personal Use Only