________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
योगस्याङ्गं चतुर्थं वदति बुधजनो धारणेति प्रसिद्ध यस्यामस्यामिलाया वदनपरिगतं नीतमन्त: समीरम् । भूयो जातं सुषत्रो (खं नो) दरवरकुहरे निस्तरङ्गं स्थिरं च मात्रायोगेन मुञ्चेद्वपुषि च सकले जायते शून्यतापि ॥१००॥ ध्यानासक्त: स्थिरास्यः कियदशनकृताहारतोषस्तपस्वी जित्वा सर्वेन्द्रियाणि प्रसभमुपगतः खेचरत्वं प्रसिद्धः । सिद्धिर्वाचामनी वा स्फुरति च परितो जातसंतोषपोषो निर्दोषः पूरुषः स्यादिति नियततया धारणा कर्मणीह ॥१०१ ॥ लीनं स्वात्मानमात्मन्यवहितमनसा चक्षुषा चान्तरेण भिन्नं ध्यानेन कृत्वा कलयति लयतो निर्विशेषात्मवृत्तिः । मूर्छारूपं लयं यव्रजति बुधजनो मीलिताक्षो विनिद्रो मात्रां द्वित्रि (?) प्रपन्नां स्थिरपवनगतिः शश्वदभ्यासयोगात्।। १०२ ॥ मुञ्चेच्चेतश्चलत्वं नयनपथबहिर्भूतमर्थं च पश्येज्जानीयाद्दूरतोऽपि श्रुतिपथरहितं शब्दमाकर्णयेच्च । निर्णेतुं भावि वस्तु प्रभवति निजया जातया ज्ञानबुद्ध्या यत्रेदं ध्यानमङ्गं तदिदमुपगतं योगिनो मुक्तिसिद्धोः ॥१०३ ॥ आकाशस्येह मध्ये खगसदृशमनुस्यूतमाकारभावं नीरूपं वस्तु किंचित्कलयति मनसा रूपवच्चेति मत्वा । चिन्तातीतो न शून्यो वियदिह विहगाकारमाधारमात्रं सत्येनासौ समाधौ रचयति परमान्भौतिकाणून्परेव ॥ १०४॥ मन्दं मन्दं यदन्ता रचयति वपुषो मध्यमक्षिप्रपन्नं रुद्ध्वा द्वाराणि सर्वाण्यपि नवगणितान्याहतो ध्यानमार्गे । निष्कम्पा तालुमूले स्थिरयति रसनां चक्षुषी मीलयित्वा पीयूषं स्वादु सद्यो रसयति गलितं दन्ततो लग्नदन्तः ॥१०५ ॥
se
For Private And Personal Use Only