________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नोत्पत्तिः स्याज्जराया मरणमपि भवेद्दूरतो ऽस्मान्नराणां नाहंकारो न रोषः सकलजनहितः सत्त्वसंतुष्टचित्तः । वायोरभ्यासलीने यमविधिषु रते योगवित्सिद्धबुद्धिः सिद्धिं निर्वाणमार्गप्रचरणमृदुताकारणानीक्ष्यमाणः कर्मण्यध्यात्मसंज्ञे समुदितविषयावज्ञया चित्तवृत्तेरौत्सुक्ये चापनीते व्यवहितविगलन्निद्रया जागरूकः | अत्यन्तं नाशकासवतिन (2) निरशनश्चित्तजाग्रन्न यस्यै दीर्घायुः पूरुषः स्यादिति नियमविधौ दत्तनित्यावधानः इत्यङ्गेषु स्थिरेषु प्रभवदुरुशमः क्षीणसर्वापराधः श्रावं श्रावं गुरुभ्यो बहु ( ? ) मुपनिषदं ब्रह्म निर्णीय सम्यक् । कृत्वा साक्षादशेषं जगदपि लयतो लीयमानं तदन्तयोगी संसारसारं फलमनुभवति प्राप्तब्रह्मैकरूपः
Acharya Shri Kailassagarsuri Gyanmandir
श्रीधनदराजकविविरचितम्
॥ श्रृङ्गारधनदशतकम् ॥ सिद्धार्था कनकाक्षरेण कलिता यस्य प्रशस्तिः स्वयं, देवी शैलसुता महेशरजतप्रस्फारपट्टेऽभवत् । लक्ष्मीर्वा मुखैरितन्मरकतप्रासादवक्षः स्थिरा दाम्पत्यं रतिकामयोस्तदवतादानन्दजीवास्पदम् मेरुर्मानितया धनैर्धनपतिर्वाचा च वाचस्पतिभगेनापि पुरन्दरः शुचितया दानेन चिन्तामणिः । गाम्भीर्येण महोदधिः करुणया कोऽपीह तीर्थङ्करः, श्रीमालो धनदः कृती वितनुते शृङ्गारपूर्वं शतम्
७०
For Private And Personal Use Only
॥ १०६ ॥
॥ १०७ ॥
॥ १०८ ॥
॥ १ ॥
॥ २ ॥