________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
केयं बाला वराकी तरलयति दृशौ मन्दमानन्दहेतू संशेते चेति चित्ते भवति न पुरुषः कोऽयमन्यः प्रकारः । आनन्दानाममैषां सततमलवतो पीतरास्यानिकृष्टास्तक्ति कुर्मोऽनभिज्ञाः शिथिलयति मदं नाधुनापीगेतत् ॥ २८ ॥ न जस्ता भूपतिभ्यो मृगपतिकुहरे निर्विशन्तोऽपि धीरा लीला येषां कदाचिद्विषधरवदने स्वाङ्गुलिक्षेपणेन । क्षुभ्यत्पञ्चास्यबिभ्रद्गजकुलकलहे ये च मध्ये भवन्ति स्फीतास्ते शान्तभावाः शिशव इव जिता लीलया वाणिनीभिः ।। २९ दृष्टं यद्दष्टमुच्चैरुदयति सुतरां मङ्गलाभावहेतुदृष्ट्ये (?) यत्रापवित्रं युवतिरपि भवेद्धर्मकमैकबन्धुः। तच्छेषे शुक्रयोगात्पुरुष इति परं तस्य चेत्पापवाञ्छा तत्पुण्यं कीटजन्म प्रलयसमुदयौ यत्र सद्यः स्वभावात् ॥३०॥ मातर्माये श्रुतासीरुपनिषदि परब्रह्मणस्त्वं द्वितीया लीलायन्ते प्रपञ्चप्रकृतिपुरुषयोः कापि शक्तिस्त्वमेव । भूयो भूयोऽनुभूतं यदि तव चरितं त्वद्वधे पुण्यमेव प्रारम्भः कुत्र पुंसः स्वत इव दुरितप्रागभावोऽपि सिद्धः ॥ ३१ ॥ लिम्पन्तश्चन्दनेन प्रतितनुसविषैः कण्टकैर्वा तुदन्तः सानन्दं वा स्तुवन्तः प्रतिपदकथया दोषमुद्भावयन्तः । ग्रासे ग्रासे नयन्तो मधुरमथ विषं निक्षिपन्तः कदा मे ते ते चैते समानाः सहजपरिणतज्ञानसिद्धिं गतास्याः द्वित्रैः सद्यः प्रसूतैः प्रथममुपचितं पञ्चषैर्जातदन्तः सप्ताष्टैर्वृत्तचूडै: पुनरधिकदशैः शैशवातीतपुंभिः । विंशत्या त्रिंशता वा परिणतवयसां सैकपञ्चाशतैवं द्यूते कालश्च कालीपणमुचितनुतः प्राणिभिनित्यमेव ॥३३॥
|| ३२ ।।
५७
For Private And Personal Use Only