________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ८८॥
यदि सदसि पुरस्ताद्वक्ति वाचस्पतिः किं बहुबुधकविमध्ये वर्तमानस्तदेतत् । स्फुटतरमनुकूलं वान(?)वित्रं तु वृद्धश्रवसि कृतकथाया जायते तत्स्वभावात् विश्वस्ते स्वोपकारिण्यवितथवचने शुद्धबुद्धिप्रकारे शूरे धर्मप्रमाणे तपसि कृतमतौ वेदविद्याप्रमाणे । सद्य: कामोपपत्तौ परयुवतिकथा पापवृद्ध्यैव भीते मास्तां पापं कदाचित्परहितनिरतं भक्तिनने स्वभावात् ॥ ८९ ॥ दूरं कृत्वापमानं प्रभुगुणगणनापेशलो मानमग्रे तिष्ठन्तं संविभाव्य प्रकटयति निजं साधयत्कार्यमेकः । स्वार्थभ्रंशेन किंचित्फलमधिकमदो मानिनो मानपोषे काले मानोऽपि कार्य: सपदि परिभवं चिन्त्यमाने परेण ॥९० ।। लक्ष्मी नाभेयनामाजयमजितमुनिः सद्भवं संभवोऽसावानन्दं सोऽभिनन्दो मतिमपि सुमतिः सद्म पद्मप्रभुः सत् । पापापायं सुपाो वितरतु सततं धामचन्द्रप्रभुश्च प्रत्यूहस्यान्तरायं सुविधिजिनपति: शीतलः शान्तभावम् ॥ ९१ ।। श्रेयानिःश्रेयसानां विधिमथ नितरां वासुपूज्यश्च पूजां वैमल्यं चेतसोऽन्तर्मुनिरपि विमलोऽनन्तनाथो यशोऽपि । धर्मो धर्मोत्तमो वा धनमधिधनदं शान्तिनाथ: सुसार्थं काव्यं श्रीकुन्थुनाथो रिपुमथनमरो मल्लिनाथ: कथास्ताः ॥९२ ॥ सुव्रतो व्रतसंपत्ति नमिनेमी नयाभये। पार्श्वनाथः सुपार्श्वत्वं महावीरो बली बलम् चिन्तामणिः संप्रति भक्तिभाजां तपस्यया त्रासितदेवनाथः ।। दयोदयः प्रीणितसर्वलोक: सिद्धो गरीयाञ्जिनभद्रसूरिः ॥९४ ॥
५०
For Private And Personal Use Only