________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७६॥
।। ७७॥
॥ ७८॥
रविरिव विजिगीषुर्मण्डलं रक्तमुच्चैदधदुदयति पूर्व शीलयन्दक्षिणाशाम् । तिरयति परतेज:संहति कर्मसाक्षी घटयति किल चक्रं भिन्नमन्यप्रयोगात् रजो भवति सुन्दरं तनुषु लग्नमेकान्ततः शिशोः समरभूमिजं वियति नीतमुच्चैः पदम् । पतत्पुनरनाकुलं तरुणवीरकूर्चस्थितं । खलास्यपरिपूरकं सदसि कीर्तितं सर्वतः आकाशस्य विशालताथ महसामेकास्पदत्वं तमःप्राप्तौ वीडितचेष्टितं श्रुतिपथस्यारम्भहेतुप्रथा । सर्वाशैकनिबन्धनत्वमखिलज्येष्ठत्वनीरोगते दीर्घायुष्ट्वमनाकुलत्वमसकृत्संचिन्तनीयं सता सर्वस्यान्तश्चरति सततं रञ्जयत्येव विश्वं स्पर्शादस्य स्फुरति शुचिता मित्रजीवायमाना। उच्चस्थायी प्रथितकुलता रम्यरम्यस्वभावो वायुः सेव्यो द्विगुणचरितो भूतवर्गे द्वितीयः यच्चक्षुः पुरुषोत्तमस्य विविधालोकैकहेतोः परं रूपस्यास्पदमेकमेव मरुतामाहारहेतूदयम्।। तेजः सिद्धमनेकधास्थितमधिक्षेतुं न शक्यं परैः शक्तिः काचन कौतुकाय सुधियां यस्यातिभूमीयते दोषारम्भककौतुकेन शशिनो जातं महल्लाञ्छनं तच्चेन्मण्डलमण्डितेति विमले व्यक्तं पुरो दृश्यते । तस्मादुज्ज्वलचारुतारचरितेनैकान्ततो मुच्यतां दोषाशङ्कि चरित्रमुज्जवलतरं नूनं यशश्चिन्वता
॥ ७९ ॥
|| ८० ॥
।। ८१ ॥
४८
For Private And Personal Use Only