________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ५८॥
।। ५९ ॥
॥६०॥
धर्मावेक्षणकौतुकेन गणितप्राणिप्रमोदादय: शक्तिप्रापितदण्डनीतिमहिमा वाहद्विषत्प्रेरणः । आयुर्मर्मविवेचनः स्मृतिजुषामेकः परासो रसाप्रायोपायवशीकृताखिलजगत्कोऽपीह धन्यो जनः नाम्ना पुण्यजनोऽयमाधिकपदो दृष्टप्रचेतःस्थिति: खङ्गाधीतिविचक्षणः क्षणदया जाग्रद्विहारोदया । वाञ्छामात्रसुसिद्धकार्यगरिमा बीभत्सितो निर्भयो धीरः कोऽपि चतुर्थदिक्पतिसमो मन्युप्रदद्वेषणः प्रतिजलनिधिजाग्रन्नामधामाभिरामः शरणगतमहीभृत्पक्षसंवर्धनश्च । परिचितबहुशब्दो नागराजोक्तिबोधाद्वरुण इव विनीतो नायकः साध्यवक्र: भूयो भूयो मृदुः सन्स्पृशति सुमनस: कम्पयजानुशाखामाशामेकां च गृह्णन्कवलयति दिशो वेगतः स्याद्दशापि । तोषं तोषं निजांशैरपि कुटिलगतीन्नाजसंभावमाप्तः सद्यस्तब्धान्नितान्तं नमयति तरसा स्यादकम्पो रुषापि बहुविधधनरक्षासिद्धवित्ताधिपत्रः शुचिविततगतापन्मानसोऽपीशमित्रम् । नरपतिकरयानः सर्वविज्ञानसीमा नरपतिरिति चेष्टस्त्यक्तबन्धूपताप: सर्वज्ञोऽनन्तशक्तिः क्षितिभृदधिपतेः कन्यया दत्तरागो नित्यं स्निह्यत्कुमारो गुणिगणपरिषद्गीततत्संपरायः । उद्यन्नेत्रः प्रकोपे रजनिचर सहकीडया शीलिताज्ञः सर्वाधीशैकमान्यः क्वचिदपि विषये विद्यमानो नरेश
॥६१ ॥
॥६२॥
॥६३ ॥
૪૫
For Private And Personal Use Only