SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || २१ ।। ॥ २२ || ॥ २३॥ तूष्णीमास्ते प्रसन्नो वितरणविमुखः संशयोत्साहकारी दैवाज्जातेऽपराधे कथयति सहसा शासनं प्राणहारि । विज्ञप्तः कोपमेति प्रसभमभिहितो हासमत्रोत्तरो वा गर्वाखर्वप्रमादो रणगणितकुल: सेवनीयो न भूपः अविगतजगतार्थो नीतिमार्गोपदेशाज्जनपदहितहेतुः सामदानप्रवीणः । बहुसचिवकुलेभ्यो दृष्टशिष्टोपचारः स्थिरयति किल मन्त्री राज्यलक्ष्मी चिरेण सहायाः संग्रामे प्रथितकुलमाना मदमुदः प्रवीणा बाणासे स्मरसमरभेदं विदधतः । वशं नीता वित्तैविगलितभिदा नापि मिलिता जयश्रीस्वीकारे तृणमिवनिजासून्विजहत: पापालापजडा: कलासु कुशलाः प्रेम्णा परं कोमला भूभृत्कर्मणि निर्मलाः शुचितया लोकोपकारोद्यताः । लोभातीतधनार्जना जनमन:संतोषकारीहिताः सभ्या दम्भपराङ्मुखाः प्रतिपदं वाचां मृषा भीरवः न्यायादेव धनार्जनं वितरणं पात्रेषु तस्य स्वयं कान्ता रूपवती सती पुनरदः सङ्गः कदाचिद्यदि । लब्धो दीर्घतपस्ययापि तनयः प्रेष्यो रणे विद्विषां केनायं विधिरङ्गदुष्करतरः सृष्टः सतां शीलहत् वृक्षः सीमारजनिरखनीजातसीता नितान्तं बाहुः पन्था नगरमुदितं संगरे सद्भटानाम् । कोश: केशो नयनमलसं संशये वाग्विचारो दीर्घा रम्या नगरमटवीवीचयो नीतयश्च ॥ २४॥ ॥ २५ ॥ ॥ २६ ॥ 36 For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy