________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ९२ ॥
आत्मीयाभातिरेकैविहसितविगलद्वारिवाहोपरोधस्मेराचिःशारदीनोदिततुहिनकरं यत्र शृङ्गं बभस्ति । भूमिभृत्पक्षभेत्तुः प्रबलबलभिद: स्वं लघूकृत्य भीत्या शैल: शीतांशुमौलेरिव शरणमगादहतो वासधाम्न: ॥ ९१ ।। ज्योतीराजीनिबद्धाग्रहनिवहचलत्केतुचक्रान्धकारच्छेत्तारश्चान्द्रवारा हरिपदपटलीस्वर्वहा वैजयन्त्यः । सन्त्येते मय्यनेके मदुपरि तदरेऽस्थाः कथं ताडनायै कुर्वन्नुद्योगमर्हद्गृह इव कृतवान् दण्डमुद्दण्डमुच्चैः चञ्चद्झाङ्काररावाधरितसुरवधूधोरणीनृत्यगीतप्रोन्माद्यद्धृङ्गमालाकलितसुमनसां राशिरस्मिंश्चकासे। संप्रापं सौमनस्यं तव परिचरणादेतदुच्चैः पदं मां देहि श्रीमज्जिनेन्दोरगमदिति महानन्दकाङ्क्षीह मन्ये ॥९३ ।। शोचि:श्रेणीसनाभीकृतनिखिलमिलत्पगिनीप्राणनाथप्राञ्चन्नानामणीभिर्घटितयदवनीनूतनाधित्यकायाम् । शोभां कामप्यनन्यां कलयति नलिनीवल्लभो बिम्बिबिम्ब: लक्ष्मी मन्येऽदसीयां मितिविषयमिवानेतुमुद्यच्छतेऽसौ ॥ ९४ ॥ निर्धूतानेकमुक्तास्तबकसमुदयाश्लिष्टलीलान्तराल श्चञ्चच्चन्द्रोदयोऽस्मिन् क्वचिदसितमणीकान्तसंपृक्तकान्तः । बिम्बेनोवाह शोभा व्यपकुरु जिन ! मे शून्यतां सग्रह ! त्वं मन्ये नक्षत्रवीथी गदितुमिदमहोरात्रमेनं निषेवे स्थाने स्थाने प्रलम्बीकरणपरिचितान्याप्तभूचन्द्रवासे जालान्युन्मीलदिन्दुधुदमृतमिहिकाकान्तमुक्तावलीनाम् । निर्वानन्यनिर्यद्बहलतरमधुस्यन्दसन्दोहलिप्सुर्धाम्यन्ती फुल्लपुष्पस्तबकततिधियेवाभ्यगाद् भृङ्गमाला ॥९६ ॥
३४
For Private And Personal Use Only