________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १० ॥
| १२ ॥
ज्ञानादीन्युपचारसाध्यशुचितानीष्टप्रदाऽनिष्टहृद्भावानीति तव प्रणीतसमये दृष्ट्वापि वाऽपेतदृग् । ज्ञानाऽऽचारहितोपचारमुपधानादीप्सिताऽसाधनं, विद्वानेतदिति प्रभो ! प्रभुपुरः किं नो व्रजेन्निग्रहम् पावित्र्येण विवर्जितेति रमणी नाऽर्हत्सपर्योचिता, मत्वा तां प्रतिषिद्धवान्किमु न च ज्ञानादिसम्पद्ग्रहम् । कादाचित्कमशौचमन्यसदृशं न ज्ञातवानज्ञराट्, दुर्जेयस्त्वरयाऽरिरेष भगवन् ! सम्प्रत्यमीषां नृणाम् ॥११॥ वृद्धौ मासतिथी प्रमाणमथवा ते न प्रमाणं किमु, ब्रूहीत्येवमुदीरितः प्रतिवचोऽशक्तः कुकर्माऽरिजित् ! । वाचाऽऽज्ञाविमुखः प्रसिद्धिमगमत् श्रीवार्षिके पर्वणि, प्राप्तानन्द इव स्मितं च कुरुते कृत्वा हि तत् श्रावणे प्रायश्चित्तकृतिः प्रतिक्रमणसत्कृत्यं द्विशः प्रत्यहं, प्रज्ञप्तं भगवंस्त्वया तदधिकं कुर्वीत कः काम्यधीः । तदृष्टान्तमुखेन संवरमयं सामायिकादीव यत्, पर्वस्वेव नु पौषधं नियमयन्नस्ति त्वदाज्ञाबहिः ॥ १३॥ ईयाँ सामयिके सुचित्तजननीमन्ते प्रतिकामयन्, सद्बीजाङ्कुरितक्षमामिव हलेनोल्लेखयनल्पधीः दोषापौषधिनोऽन्त्ययामसमये सामायिकं शिक्षयन्, दक्षंमन्यजनः कथं कथय मां स्वामिस्त्वदाज्ञापर: ॥ १४ ॥ आयुःपर्यवसायिपञ्चयमवत् त्रिदण्डकोच्चारणं, सम्यक् सामयिके जनेति मतिकृन्नो नन्दिपूर्वं तथा। प्रत्याख्यानविधावुभे इति विभो ! स्यात् सोऽनुकम्प्यः कथं ? तद्यदेव ! दिवाकरद्युतिततिः कुर्वीत किं पेचकम् ॥ १५ ॥
3८१
For Private And Personal Use Only