________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४०४ ॥
तैरवधीरिते यत्तु प्रवृत्तिरावयोरिह। तत्र दुर्जनवाक्यानि प्रवृत्तेः सनिबन्धनम् शब्दलक्ष्म प्रमालक्ष्म यदेतेषां न विद्यते । नादिमन्तस्ततो ह्येते परलक्ष्मोपजीविनः श्रीबुद्धिसागराचार्यैर्वृत्तैर्व्याकरणं कृतम् । अस्माभिस्तु प्रमालक्ष्म वृद्धिमायातु साम्प्रतम्
।। ४०५ ॥
॥४०६॥
महोपाध्यायश्रीधर्मसागरगणिविरचिता ॥श्रीमहावीरविज्ञप्ति द्वात्रिंशिका ॥ श्रीमत्स्वर्गिजनार्चितक्रमयुगं संक्रान्तविश्वत्रयं, विज्ञानं विलसद्वचः प्रतिवच:स्याद्वादमुद्राङ्कितम् । बिभ्राणं बत बाधवन्ध्यवचनं चापायवन्ध्यस्थिति, श्रीमद्वीरजिनेश्वर ! स्तुतिपथं नत्वा नये त्वामहम् ऐश्वर्यादिगुणैकलेशमपि ते वक्तुं न योगीश्वरः, कोटी-कोटिनिजायुषापि विभवे जिह्वासहस्रैरपि । तन्मेऽपि स्पृहयालुता हितवती तत्राऽस्तु तद्वत्पुन, विज्ञप्ताविति नोचिता तव पुरः प्रत्यर्थ्यसौ ज्ञप्तये तत्रापीश ! पुरा पुरातनमदीयाऽऽचार्यवर्यैः पुरः, प्रज्ञप्ता यदमी द्विषः करकरग्राहं परित्यज्य यान् । वाचाऽऽज्ञा प्रतिपद्य ये त्वदरयस्तानेव वाग्गोचरीकुर्वे सर्वविदस्तवापि पुरतस्त्वद्भक्तिनुन्नोन्नतः
॥
२
॥
॥३॥
300
For Private And Personal Use Only