SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || ३९२ ॥ ।। ३९३ ॥ ।। ३९४ ॥ ॥ ३९५ ॥ ॥ ३९६ ॥ ॥ ३९७ ॥ एकस्य कस्य संवित्तावित्यादि गदितं कथम् । ज्ञानं न वा प्रमाभावो मानमेतत्कथं मतम् प्रमाभावोऽथ विज्ञानं प्रत्यक्षं हन्त तत्तथा । तेनैव वस्तु तद्ग्राह्यं प्रमेयाभावरूपकम् एकवस्तुविनाशे हि सर्वस्यान्यस्य सम्भवः । किं नानुषज्यतेऽन्योन्याभावे हन्त समाश्रिते शिरसोऽवयवा भिन्ना वृद्धिकाठिन्यवर्जिताः । अन्योन्याभाव एवायं किं मुधा भेदकल्पना प्रमाणविषयो वस्तु पर्यायो नयगोचरः । कुनयोऽविषयो ज्ञेयः पर्यायो न ह्यगोचर: विभिन्ननयसमारूढवादिनां हि परस्परम् । विरुद्धव्याप्तताहेतोरन्वयासिद्धिरेव च एकनयसमारूढवादिना तुल्यबुद्धितः । प्रमाभास: प्रमाणत्वमियत्ति भ्रान्ततावशात् प्रमाणाभाससंसाध्यां सिद्धिमिच्छत्रयो मतः । विपक्षक्षेपकृज्ज्ञेयः कुनयस्तु विपश्चिता स्थूलं वस्तु समाश्रित्य व्यवहारानुपाति यत् । प्रमाणयन्ति चान्योन्यं नानानयसमाश्रिताः प्रमाणवादिनां तस्माद्वाद एव विचारणा । साधनाभासमन्यैस्तु वादिभिरभियुज्यते तेनावधीरणाप्यत्र महता लक्ष्मशासने । परपक्षनिरासो हि साधनाभासतोऽप्यसौ मिथ्यात्वध्वान्तभास्वन्तो जैनास्सन्ति महाधियः । यानाश्रित्य वयं पादरेणुतुल्या न जातुचित् ॥ ३९८ ॥ ॥ ३९९ ॥ ॥ ४०० ॥ ॥ ४०१ ॥ ॥ ४०२ ॥ ॥ ४०३।। 3७८ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy