________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गवयोपमिताया गोस्तज्ज्ञानग्रहशक्तता । उपमाबलसम्भूतसामर्थ्येन प्रतीयते
अभिधा नान्यथा सिद्धयेदिति वाचकशक्तता । अर्थापत्त्यैव गम्येत तदनन्यगतेः पुनः अर्थापत्त्यन्तरेणैव शब्दनित्यत्वनिश्चयः । अनित्यो हि न सङ्केतव्यवहारानुवृत्तिमान्
प्रमाणाभावनिर्णीतचैत्राभावविशेषितात् । गेहाच्चैत्रबहिर्भावसिद्धिर्यात्विह वर्णिता ताभभावोत्थितामन्यामर्थापत्तिमुदाहरेत् । पक्षधर्माद्यनङ्गत्वात् भिन्नैषाप्यनुमानतः
बहिर्देशाविशिष्टेर्थे देशे वा तद्विशेषिते । प्रमेये यो गृहाभावः पक्षधर्मस्त्वसौ कथम् जीवतश्च गृहाभावः पक्षधर्मोत्र कल्प्यते । तत्संवित्तिर्बहिर्भावं न चाबुद्धोपजायते
हाभावस्तु यः शुद्धो विद्यमानत्ववर्जितः । समृतेष्वपि दृष्टत्वाद्बहिर्वृत्तेनं साधकः अदृष्टं कल्पयेदन्यं दृष्टो वा यदि वा श्रुतः । तस्य तेनाभिसम्बन्धी मानतो निश्चितः क्वचित् अनुमानेऽवतारोस्याः अन्यथा न प्रमाणता । अन्यथा ह्यविशेषेण गमयेदखिलं न किम् किञ्चापरं पितॄणां वा शक्तेर्वा श्राद्धकर्मणि । पिण्डः कस्योपकाराय पितॄणां हि न युज्यते शक्त्या पुत्रो यतो जातस्तस्या एवोपतिष्ठतु । अन्यथाऽतिप्रसङ्गोपि तत्सम्बन्धान्न सङ्गतम्
३७५
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३५६ ॥
॥ ३५७ ॥
।। ३५८ ।।
।। ३५९ ॥
॥ ३६० ॥
॥ ३६१ ॥
॥ ३६२ ॥
॥ ३६३ ॥
॥ ३६४ ॥
॥ ३६५ ॥
॥ ३६६ ॥
॥ ३६७ ॥