SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ३४४ ॥ ॥ ३४५ ॥ || ३४६ ॥ ॥ ३४७ ॥ ॥ ३४८॥ ॥ ३४९ ॥ प्रमाणषट्कविज्ञातो यत्रार्थो नान्यथा भवन् । अदृष्टं कल्पयत्यन्यं सार्थापत्तिरुदाहृता तत्र प्रत्यक्षतो ज्ञाताद् दाहाद् दहनशक्तिता । वह्नेरनुमिताद्यानात्सूर्ये तच्छक्तियोगिता शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः । अपूर्वास्ताश्च गम्यन्ते सम्बन्धग्रहणादृते न चाऽसां पूर्वसम्बन्धो न चाऽन्यो गम्यतेऽधुना । कार्यैः सह यतस्तासां पक्षधर्मान्वयाविह श्रोत्रादिशक्तिपक्षे च यावान् हेतुः प्रयुज्यते । सर्वोऽसावाश्रयासिद्धो धर्म्यसिद्धेः प्रसज्यते पीनो दिवा न भुङ्केऽथ एवमादिवचः श्रुतौ । रात्रिभोजनविज्ञानं श्रुतार्थापत्तिरुच्यते न रात्र्यादिपदार्थश्च दिवावाक्येऽवगम्यते । न दिवादिपदार्थानां संसर्गो रात्रिभोजने न भेदो येन तद्वाक्यं भवेत्तत्प्रतिपादकम् । अन्यार्थव्यावृत्तत्वाच्च न द्वितीयार्थकल्पना तस्माद्वाक्यान्तरेणायं बुद्धिस्थेन प्रतीयते । तेनानागमिकत्वेपि यत्तद्वाक्यं प्रतीयते प्रमाणं तस्म वक्तव्यं प्रत्यक्षादिषु यद्भवेत् । न त्वनुच्चारिते वाक्ये प्रत्यक्षं व्यपदिश्यते नानुमानं न हीदं हि दृष्टं तेन सह क्वचित् । यदि त्वनुपलब्धेपि सम्बन्धे लिङ्गतेष्यते तदुच्चारणमात्रेण सर्ववाक्यगतिर्भवेत् । सम्बन्धरहितत्वेन नान्यतस्तद्विशिष्यते || ३५०॥ ॥ ३५१॥ ॥ ३५२ ॥ ।। ३५३ ॥ || ३५४ ।। ॥ ३५५ ॥ 30४ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy