________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।।६१ ॥
वेगेनानन्ततारापथचरणवशादन्तरुद्भूतखेदो भावादालम्बनस्य स्वनिपतनभिया बान्धवोऽम्भोरुहाणाम् । यस्मिनुत्तुङ्गशृङ्गाङ्गणशिखरशिखाभोगसंलग्नरोचि
क्जेनेवावलम्बं निजकरनिकरैराददानो विहस्तः प्रासादेन प्रसर्पनिजकरनिकरैः स्पधिभावं दधानो न्यच्चके लीलयाऽसौ बहलकमलया तं पुनर्जेतुकामः । तुङ्गिम्ना वा श्रियाऽस्मात् कमपि गुरुतरं भ्राम्यतीवेक्षमाणो नैवं चेत् किं नु पूर्वापरजलधिभुवि भ्राम्यति द्वादशात्मा ॥६२ ॥ प्रासादेनाप्तभर्तुः परमसुषमया लोकचक्षुश्चकोरज्योत्स्नालीलां दधत्या मरुदवनिधरो धिक्कृति लम्भितोऽसौ। कर्तुं तस्मै प्रसत्तिं पुनरपि किमसौ सर्वतः क्षुद्रचैत्यप्रस्थश्रेणीमिषेण व्यरचयदुपदां रत्नसानून्यमूनि ॥६३॥ भूमीपीठावकुण्ठीकृतकठिनहठध्वान्तसन्तानहेतुर्यस्मादंशैः प्रवृद्धस्तमपि खरकरं स्वीयभासा जिगाय । तस्मादेतत्पुरस्तात् किमणुरहमिहेत्युद्भवद्भरिभीतेः । पीयूषान्तःप्रवाहै: रजनिवरयिता निःसृतैः स्विद्यतीव यस्मिन् कुत्रापि नीलोपलकृतशिखरान्निसृताभांशुदूर्वानव्याङ्कुरभ्रमेणानणुमणिघटितानेकवाहच्छलेन । राज्ञा मुक्तावनावात्मन इव तुरगा रक्षितास्ते दशैवाशेषाशालङ्घनायै किमुत परिमितास्तस्य नो चेद् भवेयुः ॥ ६५ ॥ यस्मिनिर्यन्मरीचिप्रसृतिपरिचितानेकदिक्खञ्जनाक्षीसम्बद्धस्वर्णकुम्भा मरकतनिकरैः कल्पितोत्तानभित्तिः । शङ्गश्रेणीविहारो मदयति नयने प्राणिनां प्रावृषेण्या विद्युद्गर्भेव वर्षोन्मुखसलिलनमन्नूतनाम्भोदमाला
॥ ६४ ॥
॥६६॥
૨૯
For Private And Personal Use Only