SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १६४ ॥ ॥ १६५ ॥ ।। १६६॥ ॥ १६७॥ ।। १६८॥ ॥१६९ ॥ अनुमानं च तत्पूर्वं तद्विना न प्रवर्त्तते । अन्योन्याश्रयदोषोपि स्वातन्त्र्ये वाऽनवस्थितिः अथ स्वलक्षणं जातिस्तद्योगो जातिमांस्तथा । बुद्ध्याकारो न शब्दार्थो घरमञ्चति तत्त्वतः उच्यते शब्दतो नार्थप्रतिपत्तिरभविष्यत् । यदि तस्यार्थसम्बन्धो न कश्चिदपि विद्यते भ्रान्तं यद्यनुमानं च प्रमाणं कि मुधा श्रमः । सारूप्यादर्थसंवादि प्रत्यक्षं च त्वयेष्यते स्वलक्षणाद्यभावेन वाच्यं किं वा व्यवस्थितम् । अन्यथा व्यर्थमेवेदं सर्वमारटितं त्वया देशकालस्वभावानां भेदो वस्तुषु भेदकः । एकमुत्सृज्य शेषासु व्यावृत्तेः किं न गोचरः व्यावृत्तेस्तु स्वरूपत्वादतुच्छा जातिरेव सा । व्यावृत्तोपि च नान्वेति वाच्यं वाच्यं त्वयापि नः एकप्रत्यवमर्षस्य हेतवः केचिदेव हि । भेदेपि नियताश्चैव स्वभावेनेन्द्रियादिवत् स्वभावो न च भावानां प्रेरणाविषय: क्वचित् । अग्निर्दहति नाकाशं कोऽत्र पर्यनुयुज्यते भिन्नं चानुगतं चैव गवादिभ्योऽभिजायते । ज्ञानं द्विधापि तेनायं व्यवहारः प्रवर्त्तते किं येनैव स्वरूपेण भावो व्यावृत्तचेतसः । जनको ह्यन्वयिनोपि तेनैवाथ परेण वा ज्ञानस्यैकत्वमापन्नं कारणाभेदतोऽथवा । भाव एव द्विधा प्राप्तो विरुद्धाध्यासयोगतः ॥ १७० ॥ ॥ १७१ ।। ॥ १७२ ॥ ॥ १७३॥ ॥ १७४ ॥ ॥ १७५ ॥ ૩૫૯ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy