________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १७६ ॥
।। १७७॥
॥ १७८ ॥
।। १७९ ॥
॥ १८०॥
| १८१ ।।
स्वरूपग्रहणे साऽस्तु तां विना न च तद्ग्रहः । अन्योन्याश्रयदोषोऽयं कथं वो नानुषज्यते स्वस्वभावस्थिता भावा गृह्यन्ते च स्वरूपतः । अन्यथा वृत्तिरन्योन्या नेतरेतरदूषणम् सन्तु भावाः स्वभावस्थाः कुम्भ: कुम्भान्तरेण तु । भिन्नरूपोपि तुल्योपि विरूपोपि पटादिभिः द्विस्वभावास्ततो भावा: समानेतररूपिणः समानेतररूपस्य चेतसो विषयत्वतः एकस्यानेकरूपत्वं कीर्त्तिनैव समर्थितम् । कुलालवातिके कल्पो भेदवान् घटना कथम् रक्ते च भाग एकस्मिन्सर्वं रज्येत रक्तवत् । इत्यादि गदितं मोहाद्वस्तुरूपमजानता किं येनैव स्वरूपेण परमाणुरपरं प्रति । आभिमुख्यं भजेतासौ तेनैवान्यस्य तत्र तु एकदिग्भागिताणूनां न समुच्चयरूपता। यद्यन्येन स्वभावस्य भेदाद् भेदोऽनुषज्यते इत्यादि गदितं सर्वमसम्बद्धं न केन वः । एकस्यानेकरूपत्वं यत्त्वयैव समर्थितम् उच्छेददृष्टिनाशाय घटनामनुधावता । न चित्रप्रतिभासोऽपि नानात्वे संविदां ननु तत्रैकाल्यपरीक्षार्थं मुधैवारटितं त्वया । स्याद्वादसिद्धिभङ्गोऽपि तवोन्मादानुमापकः आश्रयासिद्धता हेतो:स्वतन्त्रे साधने मते । अनैकान्तिकता हेतोः प्रसङ्गेऽप्यभिधित्सिते
॥ १८२ ॥
॥ १८३ ॥
॥ १८४ ॥
॥ १८५ ॥
।। १८६ ॥
।। १८७॥
350
For Private And Personal Use Only