SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org व्यभिचारस्तथाध्यक्षे दृष्टस्तन्मानमस्तु किम् । तादात्म्यं नैव चार्थेन युज्यतेऽध्यक्षचेतसः ज्ञानस्य जननायोगादर्थस्य ज्ञानताप्तितः । विरुद्धधर्मयोगे च भेद एवानुषज्यते ज्ञानस्य जडतायोगे जगदन्धं प्रसज्यते । घयन्नहि पटे, ज्ञप्तिरनवस्थापि किं न वः पूर्वापरविवेकेन वर्त्तमानक्षणं मनः । सत्यं संवेदनात्सिद्धं सन्ततिस्तु कथं नु वः संवित्त्या सिद्ध्यतां कल्पः सोऽनेकाक्षरसङ्गतः । एकस्यानेकता नेति घटनेह कथं नु वः परसंविन्न संवित्त्या सिध्यतीति कथं नु सा । सन्तानान्तरसिद्धिर्वः केन केन विवादिता तदुत्पत्तिस्ततोऽन्यस्मान्नातः पूर्वमसत्त्वतः । सत्ताकाले च नोत्पत्तिर्नान्यतो विषयत्वत: तदाकारतयोत्पत्तिः सर्वथा जडता न किम् । एकदेशो निरंशस्य नेति व्यालूनमीदृशम् अर्थाभावे भवेच्चेतः कथं स्यात्तन्निमित्तकम् | शक्तिभेदोपि भावेषु देशकालादितो भवेत् रूपादिचेतसोऽवश्यमर्थसम्बन्ध इष्यते । शब्देप्येवमनिष्टो वा निमित्तमभिधीयताम् अर्थं विनापि शब्दस्य जायमानस्य दर्शनात् । व्यभिचारनिमित्तस्य प्रामाण्यं किं मुधा ननु मरीचिकादिविज्ञानविवेकादन्यचेतसः । सम्बन्धोभ्युपगन्तव्यो न प्रमाणमदोऽन्यथा ३५८ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ १५२ ॥ ॥ १५३ ॥ ॥ १५४ ॥ ॥ १५५ ॥ ॥ १५६ ॥ ॥ १५७ ॥ ।। १५८ ।। ।। १५९ ।। ॥ १६० ॥ ॥ १६१ ॥ ।। १६२ ।। ॥ १६३ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy