________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
घादिरूपताया तु मुखभङ्गादिसम्भवः । नैव चानुपलम्भोपि विधेरपि च साधनात् न चैकज्ञानसंसर्गस्तस्य केन चिदस्ति वः । निश्चितो न विरोधोपि प्रत्यक्षानुपलम्भतः कारणानुपलम्भोपि व्यापकानुपलम्भनम् । न शब्दो विधिरूपेण ततोऽर्थप्रतिपत्तितः मरीचिकाजलज्ञानं भ्रान्तं सर्वमपीदृशम् । हेत्वाभासजविज्ञानं भ्रान्तं सर्व्वं तु तादृशम् एकत्र दृष्टसंवादमक्षजाद्यविगानतः । प्रमाणमेवमत्रापि साध्यः संवाद एव हि
सूर्योपरागमुष्ट्यादौ दृष्टसंवाद एकदा । सर्वत्राप्यविगानेन प्रामाण्यं प्रतिपद्यते
अखिलातीन्द्रियज्ञानः पुरस्तादुपपादितः । आयातोऽछिन्नसन्तानः तत्प्रणीतोऽयमागमः
संवादादुत्तरं ज्ञानं कमर्थं पोषयिष्यति । सर्वज्ञः केन वोऽभीष्टस्तद्वचश्चेन्न ते प्रमा वैभाषिकादिना सार्द्धं विवादोप्यागमाश्रितः । तस्याप्रमाणतायां तु न युक्तः किं मुधा श्रमः द्वयं प्रतीत्यविज्ञानं तायिना कथितं कथम् । वैभाषिकैः समाख्याते योगाचारैः किमुच्यते उच्छेददृष्टिनाशाय नैवं शास्त्रा प्रकाशितम् । अन्यथा शून्यतासूत्रे कथं नीयेत देशना वचसां प्रतिबन्धो वा को बाह्येष्वस्ति वस्तुषु । वाच्यवाचकभावोऽयं सम्बन्धोत्र परिस्फुट:
३५७
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ १४० ॥
॥ १४१ ॥
॥ १४२ ॥
॥ १४३ ॥
॥ १४४ ॥
॥ १४५ ॥
।। १४६ ।।
॥ १४७ ॥
।। १४८ ।।
।। १४९ ॥
॥ १५० ॥
॥ १५१ ॥