________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ११६॥
॥ ११७॥
॥ ११८ ॥
॥ ११९ ॥
॥१२० ॥
॥ १२१॥
नानुमाध्यक्षपूर्वत्वात् स्वातन्त्र्ये वा न च प्रमा अन्योन्याश्रयोऽनवस्था तत्पूर्वा चेदसौ मता उपमादेरमानत्वान्नाभावो भावसाधकः । स्वर्गाद्यर्थं च दानादौ वृत्तिः किं स्वस्थचेतसः तत्रागमः प्रमाणं तु नापरं तस्य गोचरम्। सर्वविद्वीतरागस्य वचनं नापरोऽप्यसौ गणभृतो जिनेन्द्राणामानन्तर्यव्यवस्थिताः । तद्गीतवाचिमानत्वं तत्कृतं हि तथापि च छद्मस्थानां वचो मानं स्वातन्त्र्येण न युज्यते । अत एवादिसूत्रेषु ह्यनुवादविधिर्मतः छद्मस्थानामनाभोगस्तादृशामपि सम्भवी । अत एवावधिज्ञाने गौतमः क्षमयत्यलम् यस्तु तत्रानभिज्ञोपि देशनां कुरुतेऽधमः । उत्सर्गादिगतां नूनं दीर्घसंसारको ह्यसौ देशं कालं बलं सूत्रमाश्रित्य गदितो विधिः । जिनानाशातयेत्पापस्तदुल्लङ्घनतामितः अत एवाधिकारित्वं यत्र सूत्रं न दर्शितम् । सर्वज्ञोक्तं न तत्सूत्रं व्यभिचारो न तत्कृतः निर्ग्रन्थता जिनैरुक्ता निमित्तं मोक्षशर्मणः । कुतः परिग्रहस्तस्यां तस्मिन् वा सा कथं ननु धर्मार्थं स न तां हन्ति हस्त्यश्वरथशालिनाम् । राजादीनां कथं सा न को विशेषोऽपरत्र वः कैषा निर्ग्रन्थता वीरैरुक्ता वस्त्राद्यभावतः । गवादीनां न सा केन कथं वा भवतामसौ
|| १२२ ॥
|| १२३ ॥
॥ १२४ ।।
॥१२५ ॥
॥ १२६ ॥
॥१२७॥
૩૫૫
For Private And Personal Use Only