________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| १०४॥
।। १०५ ॥
॥ १०६ ॥
॥ १०७॥
लोकप्रतीतिदुष्टोपि मनुष्याऽस्थि न दुष्यति । प्राण्यङ्गत्वाद्यथा शङ्खः शुक्तिका वा त्वयेष्यते माता वन्ध्या मदीयेति स्ववाक्येन निराकृतः । निग्रहस्थानमेतद्धि हेत्वाभासादि दर्शितम् प्रतिज्ञा ह्यग्निरत्रेति धूमाद्धेतुरुदाहतः । यत्र धूमोस्ति तत्राग्नि: क्वचिद्देशे यथा तव धूमश्चात्रोपनयनं निगमो वह्रिरित्यतः । पञ्चानां शुद्धयो वाच्याः पक्षहेत्वादिदोषहाः पक्षोऽनिराकृत:कार्यो हेत्वाभासास्ततोऽपरे । दृष्टान्ते दूषणोक्तेश्च तच्छुद्धिः किं न कीर्तिता अधिकारोपसंहार: शास्त्रे यदि च सम्मतः । हेतोः कृतान्वयस्यैनं कथं नेच्छन्ति वादिनः क्षणिकत्वे यदा साध्ये विवादोऽवयवाश्रितः । निग्रहस्थानमासक्तं प्रमेयान्तरसङ्गतेः किं दुरुपनीतं नैवैतत्पक्षधर्मत्वसिद्धितः। प्रमाणफलव्याजेन निगमनं किं न वो मतम् प्रतिज्ञातार्थसंसिद्धिः शुद्धिनिगमगोचरा । दशावयमेवं तु वाक्यमिच्छन्ति तद्विदः
॥ १०८॥
॥ १०९ ॥
!! ११० ॥
॥ १११ ॥
॥ ११२॥
॥ ११३ ॥
हेतुरेव क्वचिद्वाच्य इत्यादि गदितं पुरः शब्दादसनिकृष्टयर्थप्रतिपत्तिः प्रमा परा । सर्वविद्वीतरागोक्तः सोपि तस्या निबन्धनम् दानादेरविनाभावः स्वर्गाद्यर्थेन केन वः । चक्षुरादिधियो वृत्तिनैवातीन्द्रियगोचरा
॥ ११४ ॥
॥ ११५ ॥
3५४
For Private And Personal Use Only