________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥८० ॥
।। ८१ ।।
॥ ८२ ॥
।। ८३ ।।
॥ ८४ ॥
॥ ८५ ॥
द्वीन्द्रियग्राह्यमग्राह्यं बुद्धिमद्धेतुपूर्वकम् । आश्रयासिद्धता हेतोः बौद्धानभि न संशयः एकान्तवादिपक्षोक्ता असिद्धाः सर्वहेतवः । विरुद्धा ज्ञातमप्येषां साध्यादिपरिवर्जितम् नित्योयं कृतकत्वेन यथाकाशादिसम्मतम् । विरुद्धो हेतुराकाशे साधनं नास्ति तन्न सः बुद्धिमद्धेतुपूर्वं हि संस्थानं कुम्भगेहवत् । संस्थानं भूधरादीनां तस्मात्तबुद्धिपूर्वकम् संस्थानं यादृशं कुम्भे नास्ति तद्भूधरादिषु । भूधरादिगतं नैव तज्जन्यत्वेन निश्चितम् यादृशोऽभीष्यते कर्त्ता तादृक्कर्ता घटादिषु । न सिद्ध इष्टघाती च हेतुरेष न संशयः कालात्ययापदिष्टत्वं तथा सत्प्रतिपक्षता । साध्येन समता चैव साधनाभासमीदृशम् अतीतानागतौ कालौ स्मृतिकारविवर्जितौ । कालत्वात्तद्यथा कालो वर्तमानो न किं भवेत् शब्दो नित्यः प्रमेयत्वादेष साधारणो मतः । श्रावणत्वादनित्योयमसाधारण ईदृशः चाक्षुषत्वादनित्योद्रिर्घटदिरिव निश्चितः । अनन्वयादनैकान्तो हेतुरेष न संशयः कृतकत्वादनित्योयं स्तम्भकुम्भादिवद्ध्वनिः । अदर्शितान्वयत्वेन हेतुरेष न साधक: अनित्यत्वात्कृतकोऽयं विपरीतान्वय ईदृशः । प्रवक्तृत्वादसर्वज्ञः सन्दिग्धान्वय ईदृशः
।। ८६॥
॥ ८७॥
॥ ८८ ॥
। ८९ ॥
॥ ९०॥
॥ ९१ ॥
ઉપર
For Private And Personal Use Only