________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६८॥
॥ ६९ ॥
॥ ७० ॥
॥ ७१ ।।
॥७२॥
॥७३॥
लुब्धे द्विष्टे त्वमध्यस्थे स्थेयदण्डधरादिके। न जल्पः प्रतिपक्षे वा मारणाद्युद्यमस्थिते प्रतिज्ञाहेतुदृष्यन्तदूषणेऽभिहिते परैः । समर्थः साधयेत्तानि दोषाभासा इति ब्रुवन् छलादिना विपक्षस्य शक्तः कुर्यान्निराकृतिम् । इतरो वादिनः कुर्यात्स्वपक्षमुद्भावयन् न स्थयादिव्यवस्थेह वितण्डायां न निग्रहः । नावयवव्यवस्थापि छलादिस्तु न वार्यते न येष्वस्त्यविनाभावो हेत्वाभासास्त एव हि । सम्बन्धग्रहणायोग्यं ज्ञातमज्ञातमेव हि सत्त्वे चार्थक्रियाभावो न सिद्धोऽसिद्धता न किम् । सत्त्वं हेतुर्निराधारं साध्यं च साधनं न किम् प्रमाणलक्षणातीतं प्रमाणं भवतामदः । न साध्यसाधनं ज्ञातं न वादी न च दण्डभृत् प्रत्ययत्वादनालम्ब: साधनं व्यभिचार्यदः अभासनान्न बाह्योस्ति नैकान्तो न च सिद्धिभाक् अविनाभावसम्बन्धग्राहि मानं कुतो गतम् । क्षणिकोप्यर्थक्रियाकारी कुतो मानाद्विनिश्चितम् हेत्वन्तरानपेक्षा च विनाशे परवादिनाम् । न सिद्धा साधने हेतुः किं न साध्यसमो भवेत् चेतनावन्तमाश्रित्य कार्यकृद्यदचेतनः । अचेतनं तथाण्वादि सन्देहासिद्ध ईदृशः बुद्धिमत्पूर्वकं कार्यं घटदीव विनिश्चितम् । भूभूधरादिकार्यं च न सिद्धं परवादिनाम्
॥ ७४ ।।
॥ ७५ ॥
।। ७६ ॥
॥ ७७।।
॥ ७८॥
॥ ७९ ॥
૩૫૧
For Private And Personal Use Only