________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ५६ ॥
।। ५७ ।।
। ५८॥
॥ ५९॥
॥ ६० ॥
।। ६१ ॥
क्वचिद्धेतुः क्वचिज्ज्ञातं क्वचित्पक्षोपि सम्मतः । पञ्चावयवयुक्तोपि दशधा वा क्वचिन्मतः वादे चैष विधिज्ञेयो जल्पे च नियतो विधिः । वितण्डायां प्रयोगस्तु न पक्षप्रतिपक्षकृत् वादो जल्पो वितण्डा च कथास्तिस्र उदाहृताः । न्यायविद्भिरथैतासां लक्षणानि निबोधत समानलिङ्गिनां क्वापि मुमुक्षूणामविद्विषाम् । सन्देहापोहकृद्वादो जल्पस्त्वन्यत्र सम्मत: आगमोत्थानुमानं वा वस्तुनो बलभावि वा। आगमोऽध्यक्षमप्यत्र साधनं दूषणं तथा साधनेऽभिहिते भ्रान्त्या साधनाभासतां वदेत् । अनुरूपानुमानाद्यैर्नोचेन्मन्येत तत्तथा अत एवात्र नो युक्ताः स्थेया दण्डधरादयः । छलजात्यादयो दूरं निग्रहोपि न कश्चन वाद एव भवेज्जल्पश्छलजात्यादयः परम् । अनुषज्यन्ते यथायोगं स्थेयदण्डधरादयः जल्पे चादौ विधातव्या व्यवस्था तु जयाजये। अभ्युप्येत्य कृते पक्षेऽन्यतमस्यैकवस्तुनि पक्षीकृतं यदेवास्य दोषस्तत्रैव चिन्त्यते । तन्मतेनानुषङ्गस्तु परस्याज्ञानतावहः परपक्षस्थितस्यास्य स्वमतेनानुषञ्जनम् । परस्याज्ञानदोषेण निग्रहस्थानमावहेत् पक्षान्तरगमोप्यत्र तथा प्रश्नोत्तरान्तरा । विक्षेपोऽननुवादश्च तथानूद्याप्यदूषणम्
।। ६२ ॥
॥६३ ॥
॥६४॥
|| ६५ ॥
।। ६६ ॥
॥६७ ॥
340
For Private And Personal Use Only