SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४४ ॥ ॥ ४५ ॥ ॥ ४६॥ ॥४७॥ ॥४८॥ ।। ४९ ॥ कार्यकारणयोर्भाव: स्वभावानुपलम्भनम् । संयोगी समवायी च नामकर्म न वार्यते स्वसाध्येनाविनाभूतो न स्यात्साध्यं विना भवन् । वृक्षाभावे ततो नाम्रो न धूमोपि विनाग्निना य: स्वभावविशेषो हि विद्यमानः स्वचेतसः निमित्तं तदसंवित्तेर्नास्त्यसाविति निश्चयः साध्यसाधनसम्बन्धं न क्षणः प्रतिपद्यते । प्रत्यक्षानुपलम्भाभ्यां तद्गतेस्तत्र नास्ति सः सामान्यविषयत्वेन निर्विकल्पान्न तद्गतिः । न चापरं परैरिष्टं क्षणभङ्गोऽप्रमाणक: सिद्धत्वे हेतुवैफल्यं नित्यत्वादेकरूपतः । असिद्धत्वेपि वैफल्यं न नित्यं साध्यतामियात् सम्बन्धनिश्चयाभावे नानुमानं प्रमेयवत् । जातिस्वलक्षणादीनां नास्त्यसाविति नानुमा प्रत्यक्षनि:श्रिता स्मृतिः प्रमाणमर्थनिश्चयात् । साध्यसाधनसम्बन्धग्राहिकेवानुमावत: नियामकं विना वृत्तिर्न दृष्य नियता क्वचित् । व्योमवन्नियता वृत्तिः प्राणादीनां च लक्ष्यते उत्पादविगमौ न स्तः स्थित्यभावे खपुष्पवत् । दृश्येते तौ च भावेषु स्वभावेनेह केनचित् अभ्रेन्द्रधनुरादीनां विश्रसापरिणामतः । पुद्गलानां हि संयोगविभागौ न स्थितौ परम् यल्लक्षणो मतो हेतुः स्वार्थसंवित्तये परम् । वाचाभिधीयमानस्तु परार्थं सानुमोच्यते ॥ ५० ॥ ॥५१॥ ॥५२॥ ॥५३॥ ॥ ५४॥ 386 For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy