________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३२ ॥
॥ ३४॥
॥ ३५ ॥
॥३६॥
॥ ३७ ।।
कपालघटयोरैक्यं भ्रान्त्या मन्येत किं न वः । सारूप्यमस्य मानं तु वचनं व्याहतं न किम् तादृशस्याविनाभावं तादृशेनापि कुत्रचित् । अन्वयव्यतिरेकाभ्यां प्रत्यक्षानुपलम्भतः निश्चित्य सर्वदैवायमस्याभावे न जातुचित् । कुत्रापि सम्भवत्येवं किं न जायेत निश्चयः एष एव कमो ज्ञेयः सर्वेष्वपि च हेतुषु । विपर्ययेषु बाधापि कुत्रचित्सम्प्रदर्श्यते कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमोऽदर्शनान्न न दर्शनात् अन्वयव्यतिरेकाभ्यां चेद्धेतुफलतागमः । तत एवाविनाभावनिश्चयोपि तथास्तु वः वृक्षाम्रयोस्तु तादात्म्यमन्वयव्यतिरेकतः । विपर्ययेऽथ बाधातोऽविनाभावस्तथा न किम् पक्षकदेशता हेतोवैफल्यं साधनस्य वा। व्यावृत्तेर्वस्तुधर्मत्वे सा सत्यथ न साधनम् किञ्चैकज्ञानसंसर्गश्चक्षुषोऽन्यत्र नास्ति सः । कारणानुपलम्भादेर्व्यपदेशो न वार्यते कार्यहेतोविरुद्धोपि न भिन्नस्तव कुत्रचित् । निषेधोपि विधिश्चैव वृथा भेदेन शासनम् संयोगस्याविशेषेण वह्निर्धूमं हि साधयेत् । समवायनिमित्तोपि नानवस्थाप्रसङ्गतः अविनाभाव एवैकः प्रमाणेन विनिश्चितः । निमित्तमनुमानस्य न हेतुफलतादयः
॥ ३८ ॥
॥ ३९ ॥
॥ ४० ॥
॥४१॥
॥ ४२ ॥
॥४३॥
3४८
For Private And Personal Use Only