SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org त एव वैपरीत्येन विज्ञातव्याः परं वचः । दिङ्मोह इव कोऽप्येष महामोहो महाबलः धर्मस्य बहुधाऽध्वानो लोके विभ्रमहेतवः । तेषु बाह्यफटाटोपात्तत्त्वविभ्रान्तदृष्टयः स्वस्वदर्शनरागेण विवदन्तो मिथो जनाः । सर्वथैवात्मनो धर्मं मन्यन्ते न परस्य तु यत्र साम्यं स तत्रैव किमात्मपरचिन्तया । जानीत तद्विना हो ! नात्मनो न परस्य च क्षान्त्यादिर्दशधा धर्मः सर्वधर्मशिरोमणिः । सोऽपि साम्यवतामेव मैत्र्यादिकृतकर्मणाम् साम्यं समस्तधर्माणां सारं ज्ञात्वा ततो बुधाः । बाह्यं दृष्टिग्रहं मुक्त्वा चित्तं कुरुत निर्मलम् सहजानन्दसाम्यस्य विमुखा मूढबुद्धयः । इच्छन्ति दुःखदं दुःखोत्पाद्यं वैषयिकं सुखम् कंषाया विषया दुःखमिति वेत्ति जनः स्फुटम् । तथापि तन्मुखः कस्माद् धावतीति न बुद्ध्यते सर्वसङ्गपरित्यागः सुखमित्यपि वेत्ति सः । सम्मुखोऽपि भवेत् किं न तस्येत्यपि न बुद्ध्यते सूक्ष्माः सूक्ष्मतरा भावा भेद्यन्ते सूक्ष्मबुद्धिभिः । एतद् द्वयं तु दुर्भेदं तेषामपि हि का गतिः अपराधाक्षमा क्रोधो मानो जात्याद्यहंकृतिः । लोभः पदार्थतृष्णा च माया कपटचेष्टितम् शब्दरूपरसस्पर्शगन्धाश्च मृगतृष्णिकाः । दुःखयन्ति जनं सर्वं सुखाभासविमोहितम् ३१४ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ।। ७९ ।। ॥ ८० ॥ ।। ८१ ।। ॥ ८२ ॥ ॥ ८३ ॥ ।। ८४ ।। 1164 11 ॥ ८६ ॥ 11 20 11 11 26 11 11 28 11 ॥ ९० ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy