SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥६७॥ ॥ ६८ ॥ ।। ६९ ॥ ॥ ७० ॥ ॥ ७१ ।। ॥७२॥ किं नाग्न्येन सितै रक्तैः किं पटैः किं जटाभरैः । किं मुण्डमुण्डनेनापि साम्यं सर्वत्र नो यदि कि व्रतैः किं व्रताचारैः किं तपोभिर्जपैश्च किम् । किं ध्यानैः किं तथा ध्येयैर्न चित्तं यदि भास्वरम् किं क्लिष्टेन्द्रियरोधेन कि सदा पठनादिभिः किं सर्वस्वप्रदानेन तत्त्वं नोन्मीलितं यदि नाञ्चलो मुखवस्त्रं न, न राका न चतुर्दशी । न श्राद्धादिप्रतिष्ठा वा तत्त्वं किन्त्वमलं मनः दृष्ट्वा श्रीगौतम बुद्धस्त्रिपञ्चशततापसैः । भरतप्रमुखैर्वापि क्व कृतो बाह्यकुग्रहः ? दृढप्रहारिवीरेण चिलातीपुत्रयोगिना । इलापुत्रादिभिश्चैव सेवितो योग उत्तमः येन केन प्रकारेण देवताराधनादिना । चित्तं चन्द्रोऽज्ज्वलं कार्य किमन्यैर्ग्रहकुग्रहै: तथा चिन्त्यं, तथा वाच्यं, चेष्टितव्यं तथा तथा । मलीमसं मनोऽत्यर्थं यथा निर्मलतां व्रजेत् चञ्चलस्यास्य चित्तस्य सदैवोत्पथचारिणः । उपयोगपरैः स्थेयं योगिभिर्योगकाङ्क्षिभिः सुकरं मलधारित्वं, सुकरं दुस्तपं तपः । सुकरोऽक्षनिरोधश्च, दुष्करं चित्तशोधनम् पापबुद्ध्या भवेत्पापं को मुग्धोऽपि न वेत्त्यदः । धर्मबुद्ध्या तु यत्पापं तच्चिन्त्यं निपुणैर्बुधैः अणुमात्रा अपि गुणा दृश्यन्ते स्वधियाऽऽत्मनि । दोषास्तु पर्वतस्थूला अपि नैव कथञ्चन ॥७३॥ 11७४ ॥ ।। ७५ ॥ ।। ७६ ॥ ॥ ७७॥ ॥ ७८॥ 393 For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy