________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्वर्गापवर्गदो द्रव्यस्तवोऽत्रापि सुखावहः । हेतुश्चित्तप्रसत्तेस्तत् कर्तव्यो गृहिणा सदा भवेद् विरतिरप्यस्य यथाशक्ति पुनर्यदि । तत: प्रक्षरितः सिंहः कर्मनिर्मथनं प्रति श्रावको बहुकर्माऽपि पूजाद्यैः शुभभावतः । दलयित्वाऽखिलं कर्म शिवमाप्नोति सत्वरम् येनाज्ञा यावदाराद्धा सतावल्लभते सुखम् । यावद् विराधिता येन तावद् दुःखं लभेत सः सदा तत्पालने लीनैः परमात्मात्मनात्मनि । सम्यक् स ज्ञायते ज्ञातो मोक्षं च कुरुते प्रभुः बुद्धो वा यदि वा विष्णुर्यद्वा ब्रह्माथवेश्वरः । उच्यतां स जिनेन्द्रो वा नार्थभेदस्तथापि हि
ममैव देवो देवः स्यात् तव नैवेति केवलम् । मत्सरस्फूर्जितं सर्वमज्ञानानां विजृम्भितम् यथावस्थितविज्ञाततत्स्वरूपास्तु किं क्वचित् । विवदन्ते महात्मानस्तत्त्वविश्रान्तदृष्टयः स्वरूपं वीतरागत्वं पुनस्तस्य न रागिता । रागो यद्यत्र तत्रान्ये दोषा द्वेषादयो ध्रुवम् तैर्दोषैर्दूषितो देवः कथं भवितुमर्हति । इत्थं माध्यस्थ्यमास्थाय तत्त्वबुद्ध्याऽवधार्यताम् यद्वा रागादिभिर्दोषैः सर्वसंक्लेशकारकैः । दूषितेन शुभेनाऽपि देवेनैव हि तेन किम् वीतरागं यतो ध्यायन् वीतरागो भवेद् भवी । इलिका भ्रमरीभीता ध्यायन्ती भ्रमरी यथा
३१०
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३१ ॥
॥ ३२ ॥
॥ ३३ ॥
॥ ३४ ॥
।। ३५ ।।
॥ ३६ ॥
॥ ३७ ॥
।। ३८ ।।
॥ ३९ ॥
1180 11
॥ ४१ ॥
॥ ४२ ॥