________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ४३ ॥
॥४४॥
॥ ४५ ॥
॥ ४६॥
॥४७॥
॥४८॥
रागादिदूषितं ध्यायन् रागादिविवशो भवेत् । कामुक: कामिनीं ध्यायन् यथा कामैकविह्वलः रागादयस्तु पाप्मानो भवभ्रमणकारणम् । न विवादोऽत्र कोऽप्यस्ति सर्वथा सर्वसंमतेः वीतरागमतो ध्यायन् वीतरागो विमुच्यते । रागादिमोहितं ध्यायन् सरागो बध्यते स्फुटम् य एव वीतरागः स देवो निश्चीयतां ततः । भविनां भवदम्भोलि: स्वतुल्यपदवीप्रदः सर्वेऽपि साम्प्रतं लोका: प्रायस्तत्त्वपराङ्मुखाः । क्लिश्यन्ते स्वाग्रहग्रस्ता दृष्टिरागेण मोहिताः दृष्टिरागो महामोहो दृष्टिरागो महाभयः । दृष्टिरागो महामारो दृष्टिरागो महाज्वरः पतितव्यं जनैः सर्वैः प्राय: कालानुभावतः । पापो मत्सरहेतुस्तद् निर्मितोऽसौ सतामपि मोहोपहतचित्तास्ते मैत्र्यादिभिरसंस्कृताः । स्वयं नष्टय जनं मुग्धं नाशयन्ति च धिग् हहा परे हितमतिमैत्री, मुदिता गुणमोदनम् । उपेक्षा दोषमाध्यस्थ्यं, करुणा दुःखमोक्षधीः मैत्री निखिलसत्त्वेषु प्रमोदो गुणशालिषु । माध्यस्थ्यमविनेयेषु करुणा दुःखिदेहिषु धर्मकल्पद्रुमस्यैता मूलं मैत्र्यादिभावनाः । यैर्न ज्ञाता न चाभ्यस्ताः स तेषामतिदुर्लभः अहो विचित्रं मोहान्ध्यं, तदन्धैरिह यज्जनैः । दोषा असन्तोऽपीक्ष्यन्ते परे सन्तोऽपि नात्मनि
॥४९॥
॥ ५० ॥
।। ५१ ॥
॥ ५२॥
॥ ५३॥
॥५४॥
૩૧૧
For Private And Personal Use Only