________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥
॥ २४ ।।
आकाशवदरूपोऽसौ चिद्रपो नीरुजः शिवः । सिद्धिक्षेत्रगतोऽनन्तो नित्यः शं परमश्नुते येनैवाराधितो भावात् तस्यासौ कुरुते शिवम् । सर्वजन्तुसमस्यास्य न परात्मविभागिता कृतकृत्योऽयमाराध्यः स्यादाज्ञापालनात् पुनः । आज्ञा तु निर्मलं चित्तं कर्त्तव्यं स्फटिकोपमम् ज्ञानदर्शनशीलानि पोषणीयानि सर्वदा । रागद्वेषादयो दोषा हन्तव्याश्च क्षणे क्षणे एतावत्येव तस्याज्ञा कर्मद्रुमकुठारिका । समस्तद्वादशाङ्गार्थसारभूताऽतिदुर्लभा विश्वस्य वत्सलेनापि त्रैलोक्यप्रभुणाऽपि च । साक्षाद् विहरमाणेन श्रीवीरेण तदा किल त एव रक्षिता दु:खभैरवाद् भवसागरात् । इयं यैः स्वीकृता भक्तिनिभरैरभयादिभिः यैस्तु पापभराक्रान्तैः कालशौकरिकादिभिः । न स्वीकृता भवाम्भोधौ ते भ्रमिष्यन्ति दुःखिताः सर्वजन्तुहिताऽऽज्ञैवाज्ञैव मोक्षकपद्धतिः । चरिताऽऽज्ञैव चारित्रमाज्ञैव भवभञ्जनी इयं तु ध्यानयोगेन भावसारस्तुतिस्तवैः । पूजादिभिः सुचारित्रचर्यया पालिता भवेत् आराधितोऽस्त्वसौ भावस्तवेन व्रतचर्यया । तस्य पूजादिना द्रव्यस्तवेन तु सरागता चिन्तामण्यादिकल्पस्य स्वयं तस्य प्रभावतः । कृतो द्रव्यस्तवोऽपि स्यात् कल्याणाय तदथिनाम्
॥ २५ ॥
॥ २६ ॥
॥ २७ ॥
॥ २८ ॥
॥ २९ ॥
|| ३० ॥
300
For Private And Personal Use Only