SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ७॥ ||८ ॥ ॥ ९॥ ॥१०॥ ॥ ११॥ ॥ १२ ॥ सर्वमोहक्षयात् साम्ये सर्वशुद्धे सयोगिनिः । सर्वशुद्धात्मनस्त्वेष प्रभुः सर्वस्फुटीभवेत् कषाया अपसर्पन्ति यावत् क्षान्त्यादिताडिताः । तावदात्मैव शुद्धोऽयं भजते परमात्मताम् अपसर्पन्ति ते यावत् प्रबलीभूय देहिषु । स तावन्मलिनीभूतो जहाति परमात्मताम् कषायास्तन्निहन्तव्यास्तथा तत्सहचारिणः । नोकषायाः शिवद्वारार्गलीभूता मुमुक्षुभिः हन्तव्यः क्षमया क्रोधो मानो मार्दवयोगतः । माया चार्जवभावेन लोभः संतोषपोषतः हर्षः शोको जुगुप्सा च भयं रत्यरती तथा। वेदत्रयं च हन्तव्यं तत्त्वज्ञैर्दृढधैर्यतः रागद्वेषमयेष्वेषु हतेष्वान्तरवैरिषु । साम्ये सुनिश्चले यायादात्मैव परमात्मताम् स तावद् देहिनां भिन्नः सम्यग्यावन लक्ष्यते । लक्षितस्तु भजत्यैक्यं रागाद्यञ्जनमार्जनात् यादृशोऽनन्तवीर्यादिगुणोऽतिविमलः प्रभुः । तादृशास्तेऽपि जायन्ते कर्ममालिन्यशोधनात् आत्मानो देहिनो भिन्नाः कर्मपङ्ककलङ्किताः । अदेहः कर्मनिर्मुक्त: परमात्मा न भिद्यते संख्ययाऽनेकरूपोऽपि गुणतस्त्वेक एव सः। अनन्तदर्शनज्ञानवीर्यानन्दगुणात्मकः जातरूपं यथा जात्यं बहुरूपमपि स्थितम् । सर्वत्रापि तदेवैकं परमात्मा तथा प्रभुः ॥ १३ ॥ ।। १४ ॥ ॥ १५ ॥ ॥१६॥ ॥ १७॥ ॥१८॥ 3०८ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy