________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जिणुत्ततत्ते रुइलक्खणस्स, नमो नमो निम्मलदंसणस्स; अण्णाणसंमोहतमोहरस्स, नमो नमो नाणदिवायरस्स; आराहिअखंडियसक्कियस्स, नमो नमो संजमवीरिअस्स; कम्मदुमोम्मूलणकुंजरस्स, नमो नमो तिव्वतवोभरस्स
इय नवपयसिद्धं, लद्धि-विज्जा समिद्धं, पयडिअ - सरवग्गं ह्रीँ तिरेहा समग्गं, दिसिवई - सुरसारं खोणिपीढावयारं, तिजय-विजय-चक्कं-सिद्धचक्कं नमामि
॥ योगसार ॥
प्रणम्य परमात्मानं रागद्वेषविवर्जितम् । योगसारं प्रवक्ष्यामि गम्भीरार्थं समासतः यदा ध्यायति यद् योगी याति तन्मयतां तदा । ध्यातव्यो वीतरागस्तद् नित्यमात्मविशुद्धये शुद्धस्फटिकसंकाशो निष्कलश्चात्मनाऽऽत्मनि । परमात्मेति स ज्ञातः प्रदत्ते परमं पदम् किन्तु न ज्ञायते तावद् यावद् मालिन्यमात्मनः । जाते साम्येन नैर्मल्स स्फुट: प्रतिभासते तत्त्वनन्तानुबन्ध्यादिकषायविगमकमात् । आत्मनः शुद्धिकृत् साम्यं शुद्धं शुद्धतरं भवेत् साम्यशुद्धिक्रमेणैव स विशुद्धयत आत्मनः । सम्यक्त्वादिगुणेषु स्यात् स्फुटः स्फुटतरः प्रभुः
306
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
|| 19 ||
॥ ८ ॥
॥ ९ ॥
॥ १० ॥
॥ ११ ॥
॥ १ ॥
॥ २ ॥
॥ ३ ॥
॥ ४ ॥
॥ ५ ॥
॥ ६ ॥