________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
हूहूगीतैरपि सुधा - रसैर्मन्दारसौरभैः । दिव्यतल्पसुखस्पशैः, सुरीरूपैर्न ये हताः
तत् किं ते तवो यद्वा, शिशवो यदि वा मृगाः । न ते न ते न ते किन्तु, मुनयस्ते निरञ्जनाः 'णं' कारोऽयं भणत्येवं, त्रिरेखो बिन्दुशेखरः । गुप्तित्रये लब्धरेखाः, सद्वृत्ताः स्युर्महर्षयः नवभेदजीवरक्षा-सुधाकुण्डसमाकृतिः । दत्तां नवाक्षरीयं में, धर्मे भावं नवं नवम् षष्ठः प्रकाशः ।
एष पञ्चनमस्कारः, सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां मुख्यं भवति मङ्गलम् समितिप्रयतः सम्यग्, गुप्तित्रयपवित्रितः । अमुं पञ्चनमस्कारं, यः स्मरत्युपवैणवम् शत्रुर्मित्रायते चित्रं, विषमप्यमृतायते । अशरण्याऽप्यरण्यानी, तस्य वासगृहायते
ग्रहाः सानुग्रहास्तस्य, तस्कराश्च यशस्कराः । समस्तं दुर्निमित्ताद्यं, अपि स्वस्तिफलेग्रहि न मन्त्रतन्त्रयन्त्राद्याः, तं प्रति प्रभविष्णवः । सर्वापि शाकिनी द्रोह - जननी जननीव न व्यालास्तस्य मृणालन्ति, गुञ्जापुञ्जन्ति वह्नयः । मृगेन्द्रा मृगधूर्त्तन्ति, मृगन्ति च मतङ्गजाः तस्य रक्षोऽपि रक्षायै, भूतवर्गोऽपि भूतये । प्रेतोऽपि प्रीतये प्रायः, चेटत्वायैव चेटकः
૨૦૦
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३९ ॥
॥ ४० ॥
॥ ४१ ॥
॥ ४२ ॥
॥ १ ॥
॥ २ ॥
|| 3 ||
118 11
114 11
॥ ६ ॥
119 11