________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संज्ञाकुलेश्याविकथाः, चर्चिका इव चापलम् । यस्याऽन्तर्धाम कुर्वन्ति, स एकाकी कथं भवेत् ?
शाकिनीवदविरति - संज्ञा नाट्यप्रिया सदा । ग्रासाय यतते यस्य, स एकाकी कथं भवेत् ? पञ्चाग्निवदसन्तुष्टं, यस्येन्द्रियकुटुम्बकम् । देहं दहत्यसन्देहं स एकाकी कथं भवेत् ? दायादा इव दुर्दान्ताः, कषायाः क्षणमप्यहो । यद्विग्रहं न मुञ्चन्ति कथं तस्यैकतासुखम् ? स्वमनोवाक्तनूत्थाना:, कुव्यापाराः कुपुत्रवत् । भ्रंशाय यस्य यस्यन्ति, कथं तस्यैकतासुखम् ? यस्य प्रमादमिथ्यात्व - रागाद्याश्छलवीक्षिणः । कुप्रातिवेश्मिकायन्ते, कथं तस्यैकतासुखम् ? य एभिरुज्झितः सम्यक्, सजनेऽपि स एककः । जनाऽऽपूर्णेऽपि नगरे, यथा वैदेशिकः पुमान् एभिस्तु सहितो योगी, मुधैकाकित्वमश्नुते । aण्ठः शठश्चरचौर, किमु भ्राम्यति नैककः ? क्षीरं क्षीरं नीरं नीरं, दीपो दीपं सुधा सुधाम् । यथा सङ्गत्य(यं) लभते, तथैकत्वं मुनिर्मुनिम् पुण्यपापक्षयान्मुक्ते, केवले परमात्मनि । अनाहारतया नित्यं सत्यमैक्यं प्रतिष्ठितम् यद्वा श्रुतेऽत्र नाऽनुज्ञा, निषेधो वाऽस्ति सर्वथा । सम्यगायव्ययौ ज्ञात्वा यतन्ते यतिसत्तमाः
,
हूयते न दीयते न, न तप्यते न जप्यते । निष्क्रियैः साधुभिरहो, साध्यते परमं पदम्
Acharya Shri Kailassagarsuri Gyanmandir
૨૦૫
For Private And Personal Use Only
॥ २७ ॥
॥ २८ ॥
॥ २९ ॥
॥ ३० ॥
॥ ३१ ॥
॥ ३२ ॥
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥
॥ ३६ ॥
।। ३७ ।।
|| 32 ||