SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra मोक्तारः सर्वसङ्गानां, मोष्या नाऽऽन्तरवैरिणाम् । मोदन्ते मुनयः कामं, मोक्षलक्ष्मीकटाक्षिताः लोभद्रुमनदीवेगाः, लोकोत्तरचरित्रिणः । लोकोत्तमास्तृतीयास्ते, लोपं तन्वन्तु पाप्मनाम् एकान्ते रमते स्वैरं, मृगेण मनसा समम् । मूलोत्तरगुणग्रामा - ऽऽरामेषु भगवान् मुनिः एकत्वं यदिदं साधौ, संविग्ने श्रुतपारगे । तत्साक्षाद् दक्षिणावर्त्ते, शङ्खे सिद्धसरिज्जलम् एको न क्रोधविधुरो, नैको मानं तनोति वा । एको न दम्भसंरम्भी, तृष्णा मुष्णाति नैककम् एकत्वतत्त्वनिर्व्यूढ सत्त्वा राजर्षिकुञ्जराः । ययुः प्रत्येकबुद्धाः श्री-नमिप्रभृतयः शिवम् सर्वथा ज्ञाततत्त्वानां सदा संविग्नचेतसाम् । सतामेकाकिता सम्यक्, समतामृतसारणिः व्ववदेदयुगीनौ तु द्वौ द्वौ सङ्घाटकस्थितौ । स्वार्थसंसाधकौ स्यातां व्रतिनौ वशिनौ यदि ܚܢܝܩ www.kobatirth.org , व्वसंज्ञयेत्यवतर्क्स-मैतिह्यं यद् द्वयोर्द्वयोः । वचोवक्षोवपुर्वृत्त्या, वशिनोर्व्रतिनोः शिवम् निःशङ्कमैक्यं जनयोः, वशित्वादुभयोरपि । एकस्यापि सहस्रत्वं, दुरन्तमवशात्मनः नेत्रवत्समसङ्कोच - विस्तारस्वप्नजागरौ । द्वौ दर्शनाय कल्पेते, नैकः सम्पूर्णकृत्यकृत् एको विडम्बनापात्रं, एकः स्वार्थाय न क्षमः | एकस्य नहि विश्वासो, लोके लोकोत्तरेऽपि वा २८३ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir || 3 || ॥ ४ ॥ ॥ ५ ॥ ॥ ६ ॥ ॥ ७ ॥ ॥ ८ ॥ ॥ ९ ॥ ॥ १० ॥ ॥ ११ ॥ ॥ १२ ॥ ॥ १३ ॥ ॥ १४ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy