________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १९ ॥
॥ २० ॥
।। २१ ॥
॥
१
॥
॥ २॥
'णं'-कारोऽत्र दिशत्येवं, त्रिरेख: शून्यमालितः । रत्नत्रयमयो ह्यात्मा, याति शून्यस्वभावताम् शुभाशुभैः परिक्षीणैः, कर्मभिः केवलस्य या। चिद्रूपतात्मनः सिद्धौ, सा हि शून्यस्वभावता पञ्चविग्रहसंहन्त्री, पञ्चमीगतिदर्शिनी । रक्ष्यात् पञ्चाक्षरीयं वः, पञ्चत्वादिप्रपञ्चत:
तृतीयः प्रकाशः। न तमो न रजस्तेषु, न च सत्त्वं बहिर्मुखम् । न मनोवाग्वपु:कष्टं, यैराचार्यांहूयः श्रिताः मोहपाशैर्महच्चित्रं, मोटितानपि जन्मिनः । मोचयत्येव भगवान्, आचार्यः केशिदेववत् आचारा यत्र रुचिराः, आगमाः शिवसङ्गमाः । आयोपाया गतापायाः, आचार्यं तं विदुर्बुधाः यथास्थितार्थप्रथको, यतमानो यमादिषु । यजमानः स्वात्मयज्ञं, यतीन्द्रो मे सदा गतिः रिपौ मित्रे सुखे दुःखे, रिष्टे शिष्टे शिवे भवे । रिक्थे नैःस्व्ये समः सम्यक्, स्वामी संयमिनां मतः या काचिदनघा सिद्धिः, या काचिद् लब्धिरुज्ज्वला । वृणुते सा स्वयं सूरिं, भ्रमरीव सरोरुहम् 'ण'-कारोऽत्र दिशत्येवं, त्रिरेखो व्योमचूलिकः । त्रिवर्गसमतायुक्ताः, स्युः शिरोमणयः सताम् धर्मार्थकामा यदि वा, मित्रोदासीनशत्रवः । यद्वा रागद्वेषमोहाः, त्रिवर्गः समुदाहृतः
॥३॥
॥
४
॥
॥७॥
॥ ८॥
૨૮૧
For Private And Personal Use Only