________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। १०६॥
।। १०७॥
॥ १०८॥
॥ १०९॥
।। ११०॥
॥ १११ ॥
ग्रैवेयकास्त्रयोऽधस्त्यास्त्रयो मध्यमकास्तथा । त्रयश्चोपरितनाः स्युरिति ग्रैवेयका नव अनुत्तरविमानानि, तदूर्ध्वं पञ्च तत्र च । प्राच्यां विजयमपाच्यां, वैजयन्तं प्रचक्षते प्रतीच्यां तु जयन्ताख्यमुदीच्यामपराजितम् । सर्वार्थसिद्धं तन्मध्ये, सर्वोत्तममुदीरितम् स्थितिप्रभावलेश्याभिर्विशुद्ध्यवधिदीप्तिभिः । सुखादिभिश्च सौधर्माद्यावत्सर्वार्थसिद्धिकम् पूर्वपूर्वत्रिदशेभ्यस्तेऽधिका उत्तरोत्तरे । हीनहीनतरा देहगतिगर्वपरिग्रहै: घनोदधिप्रतिष्ठाना, विमाना: कल्पयोर्द्वयोः । त्रिषु वायुप्रतिष्ठानास्त्रिषु वायूदधिस्थिताः ते व्योमविहितस्थानाः, सर्वेऽप्युपरिवर्तिनः । इत्यूर्वलोकविमानप्रतिष्ठानविधिः स्मृतः सर्वार्थसिद्धाद् द्वादशयोजनेषु हिमोज्ज्वला। योजनपञ्चचत्वारिंशल्लक्षायामविस्तरा मध्येऽष्टयोजनपिण्डा, शुद्धस्फटिकनिर्मला । सिद्धशिलेषत्प्राग्भारा, प्रसिद्धा जिनशासने तस्या उपरि गव्यूतत्रितयेऽतिगते सति । तुर्यगव्यूतषड्भागे, स्थिताः सिद्धा निरामयाः अनन्तसुखविज्ञानवीर्यसद्दर्शनाः सदा । लोकान्तस्पशिनोऽन्योऽन्यावगाढाः शाश्वताश्च ते एनां भव्यजनस्य लोकविषयामभ्यस्यतो भावनां, संसारैकनिबन्धने न विषयग्रामे मनो धावति ।
।। ११२॥
॥ ११३ ॥
॥११४ ॥
॥ ११६॥
૨૪
For Private And Personal Use Only