________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तस्योपरि च विंशत्यां योजनेषु ग्रहादयः । स्यादेवं योजनशतं, ज्योतिर्लोको दशोत्तरम् जम्बूद्वीपे भ्रमन्तौ च द्वौ चन्द्रौ द्वौ च भास्करौ । चत्वारो लवणाम्भोधौ, चन्द्राः सूर्याश्च कीर्तिताः धातकीखण्डके चन्द्राः, सूर्याश्च द्वादशैव हि । कालोदे द्विचत्वारिंशच्चन्द्राः सूर्याश्च कीर्तिताः पुष्करार्धे द्विसप्ततिश्चन्द्राः सूर्याश्च मानुषे । क्षेत्रे द्वात्रिंशमिन्दूनां सूर्याणां च शतं भवेत् मानुषोत्तरतः पञ्चाशद्योजनसहस्रकैः । चन्द्रैरन्तरिताः सूर्याः, सूर्यैरन्तरिताश्च ते मानुषक्षेत्रचन्द्रार्कप्रमाणार्धप्रमाणकाः । तत्क्षेत्रपरिधेर्वृद्ध्या, वृद्धिमन्तश्च सङ्ख्यया
स्वयम्भूरमणं व्याप्य, घण्टाकारा असङ्ख्यकाः । शुभलेश्या मन्दलेश्यास्तिष्ठन्ति सततं स्थिराः समभूमितलादूर्ध्वं, सार्धरज्जौ व्यवस्थितौ । कल्पावनल्पसम्पत्ती, सौधर्मेशाननामकौ
सार्धरज्जुद्वये स्यातां समानौ दक्षिणोत्तरौ । सनत्कुमारमाहेन्द्रौ देवलोकौ मनोहरौ ऊर्ध्वलोकस्य मध्ये च ब्रह्मलोकः प्रकीर्तितः । तदूर्ध्वं लान्तकः कल्पो, महाशुक्रस्ततः परम् देवलोकः सहस्रारोऽथाष्टमो रज्जुपञ्चके । एकेन्द्रौ चन्द्रवद् वृत्तावानतप्राणतौ ततः रज्जुषट्के ततः स्यातामेकेन्द्रावारणाच्युतौ । चन्द्रवद्वर्तुलावेवं, कल्पा द्वादश कीर्तिताः
293
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ९४ ॥
।। ९५ ।।
॥ ९६ ॥
॥ ९७ ॥
॥ ९८ ॥
॥ ९९ ॥
॥ १०० ॥
॥ १०१ ॥
॥ १०२ ॥
॥ १०३ ॥
॥ १०४ ॥
॥ १०५ ॥